SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२९ अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः " कमलमनम्मसि कमले , कुवलये तानि कनकलतिकायाम् । सा च सुकुमारसुभगत्युत्पातपरम्परा केयम् ? ॥ ६१५ ॥" अत्र मुखादीनां कमलाद्यैर्मेदेऽप्यभेदाध्यवसायः । इयं चातिशयोक्तिः साध्यवसानोपचारमूलेति । तथाऽभेदे वस्त्वैक्येऽपि तद्विपर्ययो भेदमणनम् । अथा*" असं लडहत्तणयं अन्न चिअ (य) का वि वत्तणच्छाया । सामा सामनपयावइस्स रेह चिअ न होइ ।। ६१६॥" अत्र लटभत्वादीनामभेदेऽप्यन्यत्वेन भेदः । यथा वा+ " नारायणो त्ति परिणयवयाहि सिरिवल्लहो ति तरुणीहि । बालाहिं पुण कोऊहलेण एमेव सच्चविओ ॥ ६१७ ॥" अत्र विष्णोरेकस्यैव विषयविभागाद् भेदेनोपनिबन्धः । तथा सम्बन्धे योगेऽपि तद्विपर्ययोऽसम्बन्धनिबन्धो यथा" अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तद्युतिः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥ ६१८ ॥" अत्र पुराणप्रजापतिनिर्माणसम्बन्धेऽप्यसम्बन्धो निबद्धः । तथाऽसम्बन्धे योगाभावेऽपि सति तद्विपर्ययः सम्बन्धो यथा" उभौ यदि व्योग्नि पृथक् प्रवाहावाकाशगङ्गापयसः पतेताम् । तेनोपर्मायेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥ ६१९ ॥" * अन्यत् लदभत्वमन्या काऽपि वर्त (द)नच्छाया। श्यामा सामान्यप्रजापते रेखैव न भवति ॥ + नारायण इति परिणतवयस्काभिः श्रीवल्लभ इति तरुणीभिः । बालामिः पुनः कुतूहलेनैवमेव दृष्टः ॥ For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy