SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२६ अलङ्कारमहोदधौ अभङ्गम्लेषेण यथा"अहो ! केनेशी बुद्धिर्दारुणा तव निर्मिता ? । त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित् ।। ६१० ॥" अत्र दारुणेति प्रथमान्तं प्रक्रान्तं श्लेषेण तृतीयान्तं सम्पादितमिति ॥२३॥ अथ पुनरुक्तवदाभासमाहशब्दानामामुखे यस्मिन्नेकार्थत्वावभासनम् । पुनरुक्तवदाभासं शब्द-शब्दार्थगामि तत् ॥ २४ ॥ यस्मिन् यत्र शब्दानामेकार्थत्वेनावभासनमेकार्था इव शब्दाः प्रतिमासन्ते इत्यर्थः । क ? आमुखे प्रथमप्रतिपत्तौ न तु पर्यवसानेऽपि दोषप्रसङ्गेनालङ्कारवामावात् तत् पुनरुक्तवदाभासनामाऽलङ्कारः । नपुंसकत्वेन संस्कारो लौकिकालकारवैलःण्येन काव्यालङ्काराणामलङ्कार्यपारतन्त्र्यध्वननार्थः। तच्च किम्भूतम् ? शब्द-शब्दार्थगामि शब्दगामि शब्दार्थगामि च शब्दालङ्कारः शब्दार्थालङ्कारश्रेत्यर्थः । तत् द्वयोरपि सभङ्गत्वे शब्दालङ्कारो यथा" अरिवधदेहशरीरः सहसा रथिसूततुरगपादातः। भाति सदानत्यागः स्थिरतायामवनितलतिलकः ॥ ६११ ॥" सभङ्गामङ्गत्वे शब्दार्थालङ्कारो यथा" अहीनभुजगाधीशवपुर्वलयकङ्कणम् । शैलादिनन्दिचरितं क्षतकन्दर्पदर्पकम् ।। ६१२ ॥ वृषपुङ्गवलक्ष्माणं शिखिपावकलोचनम् । स सर्वमङ्गलं नौमि पार्वतीसखमीश्वरम् ॥ ६१३ ॥ युगली" इदं स्याद्यन्तापेक्षया । १ . अथ भ० । २ प. पु. । ३ व. ०न्दा भा०। ४ प. ०भा० । ५ प. ०क्ष्येन । ६ व. तत्र । . प. । भ. प. रं.। For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy