SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6 www.kobatirth.org शब्दालङ्कारवर्णनो नाम सप्तमस्तरङ्गः २२५ असावुदय मारूढः ' इत्यादि । अत्र प्रकरणादिनियमिता राजादिशब्दा ध्वनिनैव चन्द्राद्यर्थान्तरं प्रतिपादयन्ति । केवलं विशेषणसाम्ये पुनरस्यैव विषयः । यथा Acharya Shri Kailassagarsuri Gyanmandir " स्वेच्छोपजातविषयोऽपि न याति वकुं देहीति मार्गणशतैश्च ददाति दुःखम् । मोहात् समाक्षिपति जीवनमप्यकाण्डे कष्टो मनोभव इवेश्वर दुर्विदग्धः ॥ ६०७ || अथ वक्रोक्तिमाह वाक्यं यत्रान्यथैवोक्तमन्यो व्याकुरुतेऽन्यथा । काक्का श्लेषेण वा तस्मात् सा वक्रोक्तिर्द्विधा मता ॥२३॥ " यत्र यस्यामन्यथैव प्रकारान्तरेणैव केनचिद् वाक्यमुक्तम् । अन्यः कश्चिदन्यथा पूर्वस्मात् प्रकारान्तरेण व्याकुरुते समर्थयति । कया हेतुभूतया ? काका ध्वनिविशेषेणाथवा श्लेषेण सभङ्गाभङ्गात्मना । तस्मात् काकु - श्लेषलक्षणहेतुद्वयात् सा वक्रोक्तिनामाऽलङ्कृतिर्द्विधा मता । तत्र काका यथा गुरुपरतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुम् । अलिकुलकोकिले लेलिते नैष्यति सखि । सुरभिसमयेऽसौ ॥ ६०८ || " एतद् वाक्यं नायिकया पत्युरागमननिषेधपरत्वेनोक्तम् । तत्सख्या नव्शब्दस्थितका कुप्रयोगेण विधिपर्यन्ततां प्रापितम् । सभङ्गश्लेषेण यथा " त्वं हालाहलभृत् करोषि सहसा मूर्छा समालिङ्गितो हालां नैव विभर्मि नैव च हलं मुग्धे ! कथं हालिकः ? | सत्यं हालिकतैव ते समुचिता संक्तस्य गोवाहने वक्रोक्त्येति जितो हिमाद्रिसुतया स्मेरोऽवताद् वः शिवः ||६०९ || " १ अ. लवि०, व. विशेष्य० । २ प ० लल०, व. ०ललिते । ३ अ. यत्क०, व. स्यकि० । ૨૯ For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy