________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२
अलङ्कारमहोदधौ
काले हरापनय हे उमे ! गौरि ! सहसा बलेन । तथा मह मम धमे धर्मे रसमासक्ति देसु देहि । गमागमात् संसारात् तमोवशामाशां णे नोऽस्माकं हर । हे हरवधु -! त्वं शरणं मे मम चित्तमोहोऽपसरतु सहसा झगिति । मोहमित्यत्र नपुंसकत्वं प्राकृतत्वात् । एवं भाषान्तराणामपि बोद्धव्यः ॥ ५॥
प्रकृति श्लेषो यथा
" अयं सर्वाणि शास्त्राणि हृदि ज्ञेषु च वक्ष्यति । सामर्थ्यदमित्राणां मित्राणां च नृपात्मजः || ५९२ ।। "
प्रत्ययश्लेषो यथा
" रजनिरमणमालेः पादपद्मावलोकक्षणसमयपराप्तापूर्व सम्पत्सहस्रम् | प्रमेथनिवहमध्ये जातुचित् तत्प्रसादादहमुचितरुचिः स्यानन्दिता सा तथा मे"
अत्राहमुचितरुचिः सन्नन्दिता प्रमोदवान् स्याम्, तथा तेन प्रकारेण मे मम सा नन्दिता नन्दिकेश्वरत्वं स्यादिति प्रत्ययश्लेषः ।
विभक्तिश्लेषो यथा
" विषं निजगले येन बधे च भुजगप्रभुः । देहे येनाङ्गजो दधे जाया च स जयत्यजः
५९४ ॥
अत्र येन विषं निजगले गिलितं भुजगश्च निजगले कण्ठे बने धृतः । अनङ्गो देहे दग्धः । जाया च देहे वपुषि दधे धृतेति । त्यादि - स्याद्योर्विभक्त्योः श्लेषः । सर्वेष्वप्येषु सभङ्गश्लेषोऽयम् । अभङ्गश्लेषोऽप्यष्टधैव यथासम्भवं ज्ञेयः । अत्र केचिदभङ्गश्लेपैरवमिच्छन्ति । एकस्मिन् वृन्ते फलद्वयवदेकस्मिन् शब्देऽर्थद्वितीयस्यावलग्नत्वात् । तदयुक्तम् । दोष- गुणालङ्काराणां हि शब्दार्थाश्रयत्वेऽन्वयव्यतिरेकावेव व्यवस्थापकौ । यो यस्यान्वयं व्यतिरेकं वाड (चा) नुविधत्ते स तदीय इति व्यवस्था । ततश्च
१ अ. व. प्रा० न० । २ प. प्रथम० । ३ प ० चित्तप्र० । ४ अ. ०षु भङ्गश्लेषोऽप्य० । ५ अ ० षस्यार्थश्लेषत्व०, प. ०षस्य इ० ।
For Private And Personal Use Only