SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२०] अलकारमहोदधितस्कृत-निजकृतस्त्रा काव्यकल्पलताऽऽख्या कविशिक्षा प्रतानचतुष्के स्तबकैरेकविंशत्या कल्पलता-पल्लव-विवेक-मञ्जरी-परिमलादिना च विभूषिता त्वरितकविताकामुकानां श्वेतोहराऽकारि । सं. १९४२ वर्षे काश्यां वृत्तिसहिता प्रकाशिता । प्रागस्या महाराष्ट्रीयभाषान्तरमपीतो राज्यात प्रकाशितम् । गूर्जरेश्वरवीसलदेवरानसभा -कविसभारअकेन समस्यापूरकशीघ्रकविनाऽनेनालङ्कारप्रबोधोऽप्यकारि । येन बालभारतपद्मानन्द( जिनेन्द्रचरित )महाकाव्य-स्यादिशब्दसमुच्चय-छन्दोरत्नावल्यादीनि नैकअन्धरत्नानि निष्पादितानि ।। वि. सं. १६६५ वर्षेऽहम्मदावादे शुभविजयेन विदुषा एतत्काव्यकल्पलतावृत्तेरुपरि मकरन्दोऽपि विस्तारितः । यस्य सूचनमस्माभिः जेसलमेरुमा. ग्रन्थसूच्याम् (गा, प्रा. पं. २१, पृ. ६३, पृ. ५७) अकारि । (३) आचार्यविनयचन्द्रः । वप्पभट्टिगुरुवागनुसारिणी रविप्रभगणीश्वरगदितशिक्षाशतशिक्षिका विनयाताऽस्य कविशिक्षा विक्रमीयत्रयोदशशताब्दीप्रान्तसम्भवा कृतिरस्माभिः पत्तनस्थप्राच्य नभाण्डागारीयग्रन्थसूच्याम् ( गा. प्रा. पं. ७६, पृ. ४६-१० ) सूचिताऽधावधि प्रसिद्धिं न प्राप्ता । मन्त्रिमण्डनः। विक्रमीयपञ्चदशशताब्यां विद्यमानः श्रीमालवंशीयोऽयं ग्रन्धकारो मालवदेशीयमण्डपदुर्गवासी आलम्मसाहिराजप्रसादभाग मन्त्री। काव्यमण्डन- चम्पूमण्डन-शृङ्गारमण्डन-सङ्गीतमण्डन-सारस्वतमण्डन-कादम्बरीमण्डन(दर्पण)-चन्द्रविजयादिकाऽनेन पञ्चपरिच्छेदात्मकोऽलङ्कारमण्डनग्रन्थोऽपि व्यरचि । यदबन्धुना धनदराजेन शृङ्गार-नीति-वैराग्यधनदशतकत्रयं व्यधायि । कविमहेश्वरेण काव्यमनोहरेऽस्य मण्डनस्य प्रशस्तं चरितं रचितम् । जिन( ?अजित सेनः-यत्कृतः कविशिक्षाप्ररूपण-चित्रा(शब्दा)लङ्कारप्ररूपण-यमकादिवचनार्थालंकारविवरण-रसादिनिरूपणसंज्ञकपरिच्छेदपञ्चकविभक्तोऽलङ्कारचिन्तामणिरुपलभ्यते । ____ * सोलापुर निवासि-दोसी सखाराम नेमिचन्द्रद्वारा कोल्हापुरस्थजैनेन्द्र मुद्रणालयात १८२९ शकान्देषु प्रकाशितः । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy