SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रस्तावना। [१९] प्राकृतभाषामय संक्षिप्तमप्युपयोगि 'अलङ्कारदर्पणम् । विज्ञायते, यदस्माभिर्जेसलमेरुदुर्गभाण्डागारीय ग्रन्थसूच्याम् ( गा. ओ. सि. २१, पृ. २४, अप्रसिद्ध. पृ. ६२ ) सूचितम् । वाग्भटः (१) । गूर्जरेश्वरसिद्धराजजयसिंहसमकालीनस्य तत्प्रशंसकस्य सोमसूनोरस्य महामतिमहामात्यस्य कृतिः 'वाग्भटालङ्कार ' नाम्ना विख्यातिं गता सिंहदेवगणिविहितया व्याख्यया साकं प्रकाशिता (नि. सा. काव्यमालायाम् ),जिनवर्धनसूरि(ख.)-क्षेमहंसगणि--ज्ञानप्रमोदगणि(ख.)-वादिराज( दि)-राजहंसोपाध्यायसमयसुन्दरादि नविबुधैरितरैरपि च-कृष्णशर्म-गणेशादिभिस्तद्रव्याख्या विरचिता ज्ञायन्ते । काव्यानुशासनम् (१) हेमचन्द्राचार्यः। सिद्धहेमचन्द्रशब्दानुशासनादिस्रष्टत्वेन सुप्रसिद्धस्य गूजरेश्वरसिद्धराजजयसिंहमहारामसन्मानितस्य परमाईतकुमारपालभूपालधर्माचार्यस्यास्यालङ्कारचूडामणिवृत्ति-विवेकादिविभूषितं स्वोपज्ञमष्टाध्यायमयं काव्यानुशासनं सुप्रख्यातम् (नि. सा., महावीरजैनविद्यालयतश्च ) वाग्भटः (२)। प्रायो विक्रमीयचतुर्दशशताब्द्यां विद्यमानस्य छन्दोऽनुशासन-- ऋषभदेवचरितादिकर्तुर्महाकवेः मेदपाटादिप्रसिद्धनेमिकुमारनन्दनस्य राहडलघुबन्धोरस्य 'अलङ्कारतिलक ' व्याख्याऽलङ्कृतं काव्यानुशासन निर्णयसागरीयकाव्यमालायाम् (४३) प्रसिद्धम् । कविशिक्षा (१) __ जयमङ्गलाचार्यः । अद्यावधि प्रसिद्धिं नाधिगता प्रस्तुतकविकता समीचीना कविशिक्षा स्तम्भतीर्थ( खंभात )स्थाने श्रीशान्तिनाथीयप्राचीनजैनभाण्डागारे ताडपत्रीयपुस्तिकायामुपलम्यतेऽस्या आद्यन्तांशोल्लेखः पिटर्सनरिपोर्ट-प्रथमपुस्तके (पृ. ७८-८० ) समननि । गूर्जरेश्वरजयसिंहस्तुत्युदाहरणादिना विक्रमीयद्वादशशताब्दीसन्निहितः कविसमयो विज्ञायते । अमरचन्द्रसूरिः । वायटगच्छीय-विवेकविलासादिविधातृजिनदत्तसूरिशिष्येणानेन मन्त्रीश्वरवस्तुपाल-सुकृतसङ्कीर्तनकारकविरत्नारिसिंहात् कवितारहस्यं विज्ञाय For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy