________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१८]
अलङ्कारमहोदधि
पत्तनादौ पार्श्वनाथचरितमहाकाव्य(वि. सं. १३(४)१२)-कालिंकाचार्यकथा(प्रा.)साधुदिनचर्यादिकर्तुरस्य विदुषः सङ्क्षिप्तोऽप्युपयोगी काव्यालङ्कारसारोऽप्यत्रालङ्कारमहोदधिपरिशिष्टे प्रकाशितो जिज्ञासूनां प्रमोदावहः सम्पत्स्यते ।
जैनसिद्धान्ते काव्यालङ्काराः। गद्य-पद्यमयप्राकृतप्रचुरेषु विशालेषु प्राचीनजैनसिद्वान्तसूत्रग्रन्थेषूपमादिविविधालङ्काराणामुपयोगः कृतो ज्ञायते । अनुयोगद्वारसूत्रे सप्तस्वराष्टवचनविभक्ति-नवकाव्यरसादिनिर्देशो वर्तते । तत्रैव च गेयगीतसूत्रनिबन्धविशेषणेषु"निदोसं सारमंतं च हेउजुत्तमलंकियं । उवणोयं सोवयारं च मिअं महुरमेव य ॥"
[-अनुयोगद्वारसूत्रे आ. समिति, ऋ. के. प्र. ] इत्यादावलङ्कतमपि समसूचि । विक्रमीयाष्टमशताब्दीतः प्राचीनर्जिनदासगणिमहत्तरहरिभद्रसूरिप्रभतिभिस्तस्य चूर्णि-व्याख्याकारैस्तत्पदम् ‘कव्वालंकारेहिं जुत्तं अलंकियं' [ काव्यालङ्कारैर्युक्तम् अलङ्कृतम् ] इति, मलधारिहेमचन्द्रसूरिणा च–'उपमाऽऽद्यलकारयुक्तम् ' इति च व्याख्यायि ।
प्राचीनैः पुष्पदन्त(दि.)प्रभूतिकविभिर्निजकवित्वे रुद्रटादीनां काव्यालङ्कारिकाणां स्मरणमकारि । वि. सं. ११६७ वर्षे स्वर्गभार जिनवल्लभगणी रुद्रटोभट-दण्डिवामन-भामहाधलङ्कारेषु निष्णात आसीदिति सुमतिगणियचो गणधरसार्धशतकबृहवृत्तितो मया समसूचि 'अपभ्रंशकाव्यत्रयो' (ग. प्रा. ग्रं.३७)-भूमिकायाम् पृ. २०
काव्यालङ्कारशास्त्रे जैनविदुषां प्रयत्नाः । अलङ्कारदर्पणकारः । यस्य प्रकटं नाम न परिज्ञातम् , तथापि तस्य प्राचीनं १ " आसीत् स्वामिसुधर्मसन्ततिभवो देवेन्द्रवन्यक्रमः
श्रीमान् कालिकसूरिरभुतगुणप्रामाभिरामः पुरा । जीयादेष तदन्वये जिनपति-प्रासाद-तुझाचल
भ्राजिष्णुर्मुनिरत्नगौरवनिधिः खण्डिल्लगच्छाम्बुधिः ॥ * * " तेषां विनयविनयी बहु भावदेवसरिः प्रसन्नजिनदेवगुरुप्रसादात् ।। श्रीपत्तनाख्यनगरे रवि-विश्व(१४१२)वर्षे पार्थप्रभोश्चरितरत्नमिदं ततान ॥"
-पार्श्वनाथचरितमहाकाव्य-प्रशस्तौ (४, १४ य. वि. पं.) २ " सिरिकालिकसूरीण सुब्भवभावदेवसूरीहिं।। संकलिया विणचरिया एसा योवमइजण(ई)जोग्गा ॥"
-यतिदिनचर्या-प्रान्ते ( गा. १५४ ) ३ " निदोषं सारखच्च हेतुयुक्तम् अलमृतम् । उपनीतं सोपचारं च मितं मधुरमेव च ।।"
For Private And Personal Use Only