________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ
पादान्तयोर्यथा" इह मुहुर्सदितैः कलमै रवः प्रतिदिशं क्रियते कलभैरवः । . स्फुरति चानुवनं चमरीचयः कनकरत्नभुवां च मरीचयः ॥ ५८०॥"
पादान्तेषु यथा" तव प्रिया सच्चरिताप्रमच ! या विभूषणं धार्यमिहांशुमत्तया।
रतोत्सवामोदविशेषमत्तया न मे फलं किश्चन कान्तिमत्तयां ॥५८१॥" व्याख्याऽस्य यथा-काचिद् विभूषणार्पणे गोत्रस्खलितं प्रियमेवमाह-हे सच्चरिताप्रमत्त ! हे सदाचारनिपुण ! या काचित् तव प्रियो इह तया रतोत्सवामोदविशेषमत्तया अंशुमत् कान्तियुक्तं विभूषणं धार्यम् । मम पुनस्तव प्रसादबहिष्कृताया विभूषणसमुद्भवया कान्तिमत्तया न किश्चन फलमिति सम्बन्धः । अत्रामोदो हर्षः ॥ १० ॥
श्लोकार्द्धयोर्यथा" अयशोभिदुरालोके कोपधामरणाद् ऋते । अयशोमिदुरालोके कोपधा मरणाद् ऋते १ ॥५८२॥"
श्लोकयोर्यथा" स त्वारंभव(र)तोऽवश्यमवलंबिततारवम् । सर्वदा रणमानषीदवानलसमस्थितः ॥ ५८३ ॥ सच्चारम्भव(र)तोवश्यमवलम्बिततारवम् ।
सर्वदारणमानैषी दवानलसमस्थितः ॥ ५८४ ॥" एवमाद्यन्त-मध्यावंशानां मिथो यमने भूयांसो यमकप्रकारों स्युः। ते च प्रायः काव्यस्य व्याधिभूता इति साकल्येन नोदाहृताः, दिमात्रं तु दर्शितमेवेति ॥ २०॥
१ प. च्या का० । २ अ. ०या त० । ३ प. ०रुणः । ४ प. युग्मम् । ५ प. ०स्ते ।
For Private And Personal Use Only