SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१९ मलकारमहोदधौ वर्णानां पुनरावर्तनं यमक विदुः । स्थाननियमाभावे सस्वरनियमामाचे चा. नुप्रास एव स्यात् , तद्व्यवच्छेदार्थमाइ-स्थाननियमे इति, सस्वरात्मनामिति च । इह च कचिदुभयत्रापि सार्थकत्वम् । क्वचिदेकत्र सार्थकत्वम् , अपरत्र निरर्थकत्वम् । कचिदुभयत्राप्यनर्थकत्वम् । यथा " नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् । मृदुलतातलतांतमलोकयन स सुरभि सुरमि सुमनोमरैः ॥ ५७१ ॥" अत्र प्रथमपादे उभयत्रापि सार्थकत्वम् । द्वितीय-तृतीयपादयोरेका सार्थकत्वमपरवानर्थकत्वम् । चतुर्थपादे सुरभिं सुरमि स्वित्यत्रोभयोरप्यनर्थकत्वमित्याह-सत्यर्थे पृथगर्थानां यद्यर्थों भवति तदा भिमार्थानामेवावृतिरामावे स्वन्यथापि ॥ १९ ॥ अर्थतस्य भेदानाहपाद-पादादि-मध्यान्त-श्लोकार्प-श्लोकवर्तिनीम् । मनोज्ञां दधदावृत्तिं भियते तदनेकधा ॥ २० ॥ तद् यमकमनेकधा बहुमिः प्रकारेभिद्यते। कीदृशं सदित्याह-पादयोःलोके तुर्य भागयो। समग्रयोः पादानां चा सर्वेषां पादादौ पादायोः पादादिषु च पादमध्ये पादमध्ययोः पादमध्येषु च । पादान्ते पादान्तयोः पादान्तेषु च । लोकायोः श्लोकयोश्च समायोर्वर्तमानां मनोज्ञामावृत्तिं दधत् धारयदिति । तत्र पादयोर्यथा" या विमति कलवल्लकीगुणस्वानमानमति कालिमालया। नात्र कान्तमपगीतया तया स्वानमानमतिकालि मालया ।। ५७२ ।।" एवं प्रथमादिपादानामपि द्वितीयादिपादेषु चतुर्णा वा मिथो यमनं ज्ञेयम् । १५. भयो । २. तु०-३ व. च । ४. यति । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy