SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१५ मलकारमहोदधौ अथ पदस्थस्यास्य भेदानाहस्वभावादुपचाराच्च वीप्सयाऽऽभीक्ष्ण्यतोऽपि वा। कषादिभ्यश्च धातुभ्यः स्वात्मन्युपपदस्थिते ॥ १७ ॥ आवृत्तिदृश्यते या च या च काचन सम्भ्रमात् । अनुप्रासं तमप्याहुलाटीयं कविपुङ्गवाः ॥१८॥ या च कानिदावृत्तिः स्वभावात् निसर्गात् दृश्यते । यथा"कुर्वन्तोऽमी कलकलं मारुतेन चलाचलाः । मातर्मुलेगुलायन्ते गजा इव घनाघनाः ॥ ५६४ ॥" अत्र स्वामाविकी सर्वाऽप्यावृत्तिः । या चोपचाराद् यथा" अमृतममृतं चन्द्रश्चन्द्रस्तथाऽम्बुजमम्बुजं रतिरपि रतिः कामः कामो मधूनि मधून्यपि । इति न भजते वस्तु प्रायः परस्परसङ्करं तदियमवला धत्ते लक्ष्मी कथं सकलात्मिकाम् ॥ ५६५ ॥" अत्रार्थान्तरसङ्क्रान्तवाच्य उपचारः । या च वीप्सया यथा"शैले शैले न माणिक्यं मौक्तिकं न गजे गजे । देशे देशे न विद्वांसश्चन्दनं न वने वने ॥ ५६६ ॥" अत्र वीप्सया द्विरुक्तिः। यथा वाऽऽभीक्ष्ण्यतो यथा . प. मुनिपु० । २ अ. व. ०र्गुलु० । ३ व. दिशि दिशि । ४ अ. व. या चाभी० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy