________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दालारवर्णनो नाम सप्तमस्तरङ्गः ।
२०१ विपर्यस्तः क्रमात्ययी ॥ ८॥
क्रमालही विपर्यस्तो यथा"प्रणवः प्रवणो यत्र प्रथमः प्रमथेषु यः।
रणवान् वारणमुखः स वः पातु विनायकः ।। ५४९ ॥" अत्र क्रमाभावो व्यक्त एव ॥८॥
अथ वेणिकामाहआवाक्यान्तगतानेकवर्णावृत्तिस्तु वेणिका ।
आवाक्यान्तं वाक्यपरिसमाप्ति यावद् गता स्थिताज्नेका भूयसी वर्णावृधिर्यस्यां सा वेणिका । यथा
"विद्राणे रुद्रधुन्दे सवितरि तरले वजिणि ध्वस्तवजे ___ जाताशके शशाङ्के विरमति मरुति त्यक्तवैरे कुबेरे । वैकुण्ठे कुण्ठितास्त्रे महिषमतिरुषं पौरुषोपघ्ननिम्नं निर्विघ्नं निघ्नती वः शमयत दुरितं भरिमावा भवानी ॥५५०॥"
अथ गर्मितमाहगर्मितस्त्वपरो वर्णस्तोमो यत्रान्यगर्भितः ॥ ९ ॥ अपरो वर्णसमुदायो यत्रान्येन वर्णेन गर्मितः स्यात् स गर्मितः । यथा
" कालं कपालमालाइमेकमन्धकसूदनम् । ___ वन्दे वरदमीशानं शासनं पुष्पधन्वनः ।। ५५१ ॥" अत्र कालं कपालेत्यादिषु द्वितीयो वर्णस्तोमा पकारादिमिर्गमितः ॥९॥
___ अथ वृत्यनुप्रासमाह
१५. कमात्ययी क० । २ व. प्रणवो । ३ व. ०यमे० ।
२७
For Private And Personal Use Only