SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६ अलङ्कारमहोदधौ ज्ञेयोऽन्तरान्तरा हृद्यछेकानुप्रासलाञ्छितः। सङ्कीर्णः पाटलाबन्धकाम्यस्त्रग्दामसोदरः ॥ ५॥ श्रुत्यनुप्रास एवान्तरान्तरा मध्ये मध्ये हृद्येन मनोझेन वक्ष्यमाणेन छेकानुप्रासेन लाञ्छितोऽङ्कितः सङ्कीर्णनामा ज्ञेयः । स च कीदृशः १ पाटलाबन्धेन पाटलायाः पुष्पविशेषस्य बन्धेनं निवेशेन काम्यं यत् स्रग्दाम तस्य सोदरस्तद्वत् कमनीय इत्यर्थः । यथा" स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः । वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदविन्दवः ॥५३२॥" अत्र दन्त्यौ मूर्धन्यावोष्ठ्यौ ड-लयोरेक्येन दन्त्यपञ्च मूर्धन्य इत्यादिना क्रमेण पूर्ववद् आवृत्तिस्तत्र च क्षणं पक्ष्मीं धराः पयोधरा वली स्खलिताः दिरे चिरेणदबिन्दवः । इति छेकानुप्रासप्रवेशः । यथा वा" विमुच्य साहारमहार्यनिश्चया विलोलदृष्टिः प्रविलुप्तचन्दनम् । बबन्ध बालाऽरुणबभ्रु वल्कलं पयोधरोत्सेधविशीर्णसंहतिः ॥ ५४०॥" अत्रापि सर्व पूर्ववत् ॥ ५॥ अथ नागरमाहभेदेऽप्येकमतौ भेदबुद्धावैक्येऽपि जायते। ड-लयोरैक्यमित्यादिवाक्यरैक्ये च नागरः ॥६॥ भेदेऽपि कथञ्चिदेकत्वबुद्धावेको नागराख्यः श्रुत्यनुप्रासो जायते । तथा कश्चिदैक्येऽपि भेदबुद्धौ द्वितीयः । तथा ड-लयोरैक्यमित्यादिवाक्यैरेकत्वे सति च तृतीयः । तत्राद्यस्तुल्यस्थानानां यथा १ अ, मध्ये। २ अ. न का।३ अ. च प० । ४ प. ०सु धराधरो प० । ५ प. चरण द० । ६ प. प्रविशेषः । ७ व. यथा।८ अ.च सति । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy