________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शब्दालङ्कारवर्णनो नाम सप्तमस्तरङ्गः ।
तुल्यस्थान भवैर्वर्णेरावृत्तैः श्रुतिहारिभिः । विश्रुतः श्रुत्यनुप्रासः सर्वस्वं कविकर्मणः ॥ ३ ॥ तुम्यमेकमेव स्थानमुत्पतिक्षेत्रमुरः- कण्ठादि । यदुक्तम्" अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ।। ५३६ ॥
"
Acharya Shri Kailassagarsuri Gyanmandir
तद्भवैस्तदुत्पन्नैः श्रुतिहारिभिः श्रवणानन्दिभिर्वर्णैरावृत्तैः पुनरुच्चारितैः श्रुत्यनुप्रासो नामानुप्रासो विश्रुतः प्रथितः । स च कीदृश इत्याह- कविकर्मणः काव्यस्य सर्वस्वं रहस्यम् । यदुक्तम्
" निवेशयति वाग्देवी प्रतिभानवतः कवेः । goryप्रासं सुसमाधिनि चेतसि ॥ ५३७ || " ॥ ३ ॥ अथास्य भेदानाह—
स एष त्रिविधः शुद्धः सेङ्कीर्णो नागरस्तथा ।
तत्र शुद्धस्य स्वरूपमाह -
शुद्धस्तत्रोदितः पूर्वैः शुद्धपूर्वोक्तलक्षणः ॥ ४ ॥
पूर्वैः पूर्वसूरिभिः शुद्धं केवलं पूर्वोक्तं तुल्यस्थानेत्यादि सूत्रभणितं लक्षणं
यस्य । यथा
44 एष राजा यदा लक्ष्मी प्राप्तवान् ब्राह्मणप्रियः । तदा प्रभृति धर्मस्य लोकेऽस्मिन्नुत्सवोऽभवत् || ५३८ ॥ "
२०५
१ अ ०: पु० । २ प. प्रकीर्तितः ।
अत्र प्रथम- तृतीययोः पादयोर्मूर्धन्य तालव्य - दन्त्यौष्ट्यवर्णानां निरन्त राऽऽवृतिर्द्वितीय - चतुर्थयोस्तु सान्तरा ॥ ४ ॥
अथ सङ्कीर्णमाह
For Private And Personal Use Only