SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अलङ्कारमहोदधौ अथ सप्तमस्तरङ्गः । अथ शब्दालङ्कारानभिधित्सुस्तत्प्रस्तावनामाहनिर्दोषोऽपि गुणाढ्योऽपि शब्दो नालङ्कति विना । वैचित्र्यमश्नुते ताहक् तच्छब्दालङ्कतीर्बुवे ॥ १॥ निर्दोषोऽप्यसंस्कारत्वादिदोषरहितोऽपि गुणाढ्योऽपि माधुर्यादिगुणस्फीतोऽपि शब्दो वाचकोऽलङ्कति विनाऽलङ्कारमन्तरेण न नैव ताहक् चेतनचमस्कारि वैचित्र्यं विचित्रतामश्नुते प्राप्नोति । यदुक्तम् "युवतेरिव रूपमङ्गकाव्यं स्वदते शुद्धगुणं तदप्यतीव । विहितप्रणयं निरन्तराभिः सदलङ्कारविकल्पकल्पनाभिः ॥ ५३५ ॥" तत् तस्मात् कारणात् शब्दालतीः शब्दनिष्ठालङ्कारान् ब्रुवे वच्मीति ॥१॥ अथादौ तावत् सकलकविकुलाराध्यमनुप्रासं लक्षयतिअनुप्रासोऽक्षरावृत्तिर्नातिदूरान्तरस्थिता। स चतुर्धा श्रुति-च्छेक-वृत्ति-लाटानुवृत्तिभिः ॥२॥ अक्षराणां वर्णानां सस्वरत्वासस्वरत्वनियमरहितानामावृत्तिस्तेषामेव पुनयसनमनुप्रासाख्योऽलङ्कारः । साँच कीदृशी ? न नैवातिशयेन दूरान्तरस्थिता प्रकृष्टव्यवधानवर्तिनी", किन्तु वर्णान्तरेण स्वल्पव्यवधानवर्तिनी । यतो निरन्तरा दूरान्तरा च न तादृक् सौन्दर्यावहा । स चानुप्रासः श्रुतेः श्रवणस्य च्छेकानां विदग्धानां वृत्तीनामुपनागरिकाऽऽदीनां लाटानां देशविशेषोद्भवनराणां चानुवृत्तिभिरनुसृतिभिश्चतुर्धा चतुर्विधो भवतीति ॥ २ ॥ अथ श्रुत्यनुप्रासलक्षणमाह १ भ. विकार० । २ ५. दौ स. । ३ प. स । ४ प. शो । ५ अ. नी य० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy