________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणनिर्णयो नाम षष्ठस्तरङ्गः । "प्रौढच्छेदानुरूपोच्छल नरयभवत्सँहिकेयोपघात
त्रासाकृष्टाश्वतिर्यग्वलितरविरथेनारुणनेक्ष्यमाणम् । कुर्वत् काकुत्स्थवीर्यस्तुतिमिव मरुतां कन्धरारन्ध्रभाजां ___ भाकारैर्मीममेतन्निपतति वियतः कुम्भकर्णोत्तमाङ्गम् ।। ५३४ ॥" अत्र वक्तप्रबन्धानपेक्षं वाच्यमेवोद्धतं तदनुरूपा वर्णादयः ।
प्रबन्धौचित्येन यथा-आख्यायिकायां शृङ्गारेऽपि न मसृणा वर्णादयः कथायां नात्यन्तमुद्धताः। नाटकादौ रौद्रेऽपि न दीर्घसमासादयः । एवमन्यदप्यौचित्यमनुसर्तव्यमिति ॥ ३१ ॥ गिरो गुणरित्यधिको विचित्रतां दधत्यलङ्कारविवर्जिता अपि । हरन्ति हारप्रमुखैविभूषणैर्विनाऽपि सौभाग्यजुषो हि योषितः॥
इत्यलङ्कारमहोदधौ गुणनिर्णयो नाम षष्ठस्तरङ्गः ॥ ६॥ ..
-
-
१व, ०पेक्ष्य । २ प. षोपि ।
For Private And Personal Use Only