________________
Shri Mahavir Jain Aradhana Kendra
२००
www.kobatirth.org
अलङ्कारमहोदधौ
परस्परं परिस्यूत पदद्रढिमबन्धुरः । व्युत्पन्नप्रतिभोत्पन्नवाच्यवैचित्र्य चुम्बितः ॥ २४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
उल्लसन्नवलावण्यभगिकल्लोललालितः । सूत्रयन् नवतामुच्चैरनवस्यापि वस्तुनः ॥ २५ ॥ वितन्वन् मनसः कामं दीप्तिसंवलितां मुदम् । निसर्गकलितौद्धत्यस्तत्र गुम्फः किलोदितः || २६ ।। त्रिभिर्विशेषकम् ।
परस्परं मिथः परिस्तान्यलक्ष्यसन्धिबन्धानि यानि पदानि तेषां द्रढिम्ना निविडत्वेन बन्धुरो रमणीयः । व्युत्पन्ना विदग्धा या प्रतिभा तया यदुत्पन्नं वाच्यवैचित्र्यमभिधेयप्रागल्भ्यं तेन चुम्बितः स्पृष्टः ! उल्लसन्ती नवा नूतना या लावण्यमङ्गिः कान्तिविच्छित्तिस्तस्याः कल्लोलास्तरङ्गास्तैर्लालितः खेलितः । अनवस्यापि पूर्वकविस्पृष्टस्यापि वस्तुनः काव्यार्थस्योच्चैरतिशयेनं नवतामचुम्बितत्वं सूत्रयन् कुर्वन् । तथा मनसश्चेतसो 'रसिकानामिति गम्यम् ' दीप्तिसंवलितामुत्साह करम्बितां मुदं प्रीर्ति वितन्वन् विस्तारयन् । निसर्गेण स्वभावेन कलितौद्धत्यः सहजोद्भूतस्तत्र तस्मिन् ओजसि गुम्फा पदबन्धः कलेति पूर्वाचायैरुदितो व्यञ्जकत्वेन कथितः । यथा वा
66
“ यस्या( अद्या )वस्कन्दलीला चलितबलपरिस्पन्दखर्गीकृतोवींसंरम्भोत्तम्मनाग्रो (यो) न्नमितभर [ नमत्र ] कन्धरासन्धिरासीत् । शेषो विस्कारफुल्लस्फुट पृथुलफणास्फूत्कृताग्निस्फुलिङ्गस्फूर्जा[जैत) सन्दोहसन्देहित विकट शिखामण्डली रत्नखण्डः ।। ५२९ ।। "
न पुनरेवं यथा - ' देशः सोऽयमरातिशोणितजलैः ' इत्यादि । अत्र यथोक्तवर्णाभावोऽनुद्धतो गुम्फः समासदैर्ध्याभावश्च विरुद्धः ॥ २३ ॥
१ अ. २५० । ६ अ. ये नव० ।
For Private And Personal Use Only