SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९९ गुणनिर्णयो नाम षष्ठस्तरङ्गः। नन्ति तेषां मनसो यत् ताण्डवमानन्दनृत्यं तस्य नाट्यभूर्नाट्यागारमलक्ष्यावयवा गुम्फविशेषवशादविज्ञातपदविभागा काचिदीदृशी रचना बन्धविच्छित्तिस्तस्मिन्निति तस्य माधुर्यस्य व्यञ्जिकेत्यर्थः ॥ १८-२०॥ अौजो लक्षयतिदीप्तत्वेनात्मविस्तारहेतुरोजो निगद्यते । वीरो नाम रसस्तस्य केलिचक्रममकुटिमम् ॥ २१ ॥ दीप्तत्वेन दीप्तरूपतया योऽयमात्मनश्चित्तस्य विस्तारस्तस्य हेतुरोजो निगद्यते कथ्यते । तस्य वीरो नाम वीराख्यो रसः केलिचक्रमस्य लीलाविहारस्य कुट्टिमं स्फटिकादिवद्धा भूमिस्तत्रेदं विलसतीत्यर्थः ॥ २१ ॥ ___ अस्य स्वरूपान्तरमाह - आधिक्यं तस्य पूर्वस्मात् क्रमाद बीभत्स-रौद्रयोः। तस्यौजसः पूर्वस्माद् वीररसाद बीभत्स-रौद्रयोः क्रमादाधिक्यम् । वीराद् बीमत्से ततोऽपि रौद्रे तेषामङ्गभूतेऽप्यधिकमोजः कार्यमित्यर्थः । ___ अथास्य व्यञ्जकानाहतत्र योगस्तदाद्याभ्यां स्याद् द्वितीय-चतुर्थयोः ॥२२॥ यस्य कस्यापि रेफेण मिथश्च सदृशोयुतिः। कार्यों श-पौ टवर्गश्च तथा दीर्घसमासता ॥ २३ ॥ तत्र तस्मिनोजसि द्वितीय-चतुर्थयोर्वर्गाक्षरयोस्तदा द्वा(घा)भ्यां प्रथम-नृतीयाभ्यां योगः शिरसि सम्बन्धस्तथा यस्य कस्यापि वर्णस्याथ उपरि उभयत्र वा रेफेण युतिस्तथा सदृशोरेकरूपयोर्वर्णयोश्च युतिस्तथा शकार-पकारौ कायौँ टवर्गवार्थाण्णकारवर्जः कार्यः । तथा दीर्घः समासश्च व्यञ्जकः कार्य इति ॥२३॥ अथास्य व्यञ्जकं गुम्फमाह १ अ. अथ ध्य० । २ व. ०कगु० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy