SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९८ अलङ्कारमहोदधौ समासरहितः स्वल्पसमासो वा पदन्यासो यथा" मनीषिताः सन्ति गृहेऽपि देवतास्तपः क वत्से ! क च तावकं वपुः ।। पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः ।। ५२७ ॥" न त्वेवं यथा"बाले । मालेयमुन भवति गगनव्यापिनी नीरदाना किं त्वं पक्ष्मान्तवान्तर्मलिनयसि मुधा वक्त्रमथुप्रवाहैः। एषा प्रोत्तमत्तद्विपकटकषणक्षुण्णविन्थ्योपलामा दावागेोम्नि लग्ना मलिनयति दिशा मण्डलं धूमरेखा ॥५२८॥" अत्र दीर्घः समासः स च विप्रलम्भानुंचितः ॥ १६-१७ ॥ अथास्मिन् विशेषव्यञ्जिकां रचनामाहसहजप्रातिभोन्मीलद्वाच्य-वाचकचारिमा। अक्लेशकल्पितस्वल्पतद्विदाह्रादिभूषणा ॥ १८ ॥ भावस्वाभाविकौदार्यतर्जिताहार्यकौशला । अमन्दरसनिःस्यन्दसुधोद्गारतरङ्गिता ॥ १९ ॥ कविकमैकमर्मज्ञमनस्ताण्डवनाट्यभूः । अलक्ष्यावयवा तस्मिन् रचना काचिदीशी ॥ २० ॥ सहजं स्वाभाविकं यत् प्रातिभं प्रतिगैव तेनोन्मीलनाविभवन वाच्य-वाच. कयोरर्थ-शब्दयोश्चारिमा हृदाह्लादीनि सहृदयचमत्कारीणि भूषणान्यलङ्कारा यस्यां सा । तथा भावानां पदार्थानां स्वाभाविकं यदौदार्य परिस्पन्दविशेषस्तेन तर्जितं न्यत्कृतमाहार्य कृतकं कौशलं कविवैदग्ध्यं यस्यां सा । तथा अमन्दः स्तोकेतरो यो रसनिःस्यन्दः स एव सुधोद्वारः पीयूषोल्लासस्तेन तरङ्गिता रसामृतकल्लोलमयीत्यर्थः । कविकर्मणः काव्यस्य यदेकमद्वितीय मर्म रहस्यं तद् ये जा १ व. नुप्रासोचि० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy