SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणनिर्णयो नाम षष्ठस्तरङ्गः । १९७ इत्याह-चेतसो मनसो द्रुतिकारणं गलितत्वहेतुरयं च विशेषणद्वारेण हेतुरुक्तः । एतस्य माधुर्यस्य शृङ्गारोऽर्थाद् भोगरूपो मूलायतनं कुलभवनम् । कीदृशः स्मरजीवित शृङ्गारप्रसक्त्या हि पश्चेषुर्जीवति । हास्याद्भुतादयस्तु शृङ्गाराङ्गत्वादेवास्यास्पदानीति पृथग् नोक्ताः ॥ १५ ॥ अथास्य विशेषमाहशान्ते सातिशयं विप्रलम्भे च करुणे च तत् । तन्माधुर्यं शान्ते विप्रलम्भे च सातिशयमत्यन्तद्रुतिहेतुत्वात् । ___ अथास्य व्यञ्जकानाहतत्र वर्गा निजैरन्त्यैराकान्तशिरसः स्मृताः ॥ १६ ॥ टवर्गपरिहारश्च इस्वव्यवहितौ रणौ। असमासः पदन्यासः समासाल्पवानथ ॥ १७ ॥ तत्र माधुर्ये माधुर्यव्यञ्जका इत्यर्थः । वर्गाः कवर्गादयो निजैरन्त्यैर्डकाराद्यैराक्रान्तशिरसोऽधिष्ठितमु नः स्मृताः कथिताः । यथा" अनङ्गरङ्गप्रतिमं तदङ्ग भङ्गीभिरङ्गीकृतमानताङ्ग्याः । कुर्वन्ति यूनां सहसा यथैताः स्वान्तानि शान्तापरचिन्तनानि ॥५२४॥" टवर्गस्य परिहारस्त्यागो न पुनरेवं यथा" अर्कुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठि ! माम् । कम्बुकण्ट्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर ॥ ५२५ ॥" ___ तथा रेफ-णकारौ ह्रस्वान्तरितौ" दारुणरणे रणन्तं करिदारणकारणं कृपाणं ते । रमणकृते रणरणकी पश्यति तरुणीजनो दिव्यः ॥ ५२६ ॥" १ अ, ०ते क० । २ अ. ०र्गा नि० । ३. व. भकंठो । ४ व, कलं । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy