SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणनिर्णयो नाम षष्ठस्तरङ्गः । १९५ tai Harai स्वभावस्य सूक्ष्मस्वरूपस्य या स्फुटता व्यक्तिस्तद्रूपा तदात्मिका या चेयमर्थव्यक्तिरुच्यते । यथा " स्पृष्टेषु शहखशकलच्छविषु छदानां राजीभिरङ्कितमलक्तकलोहिनीभिः । गोरोचनाहरितवस्तु बहिः पलाशमामोदते कुमुदमम्भसि पल्वलस्य ॥ ५१९ || " प्रसादादयो गुणा अस्मत्प्रसादोऽस्माभिवक्तुमीष्टो यः प्रसादः स एव प्रासादस्तस्य कक्षालक्ष्मीविडम्बिनः प्रदेश विशेषसम्पदनुकारिणस्तदन्तर्भूता इत्यर्थः ।। १०-१२ ॥ अथ कियतामपि दोषत्यागेन स्वीकारमाह या तु मार्गपरित्यागस्वरूपा समता मता । या च सा प्रक्रमाभेदरूपा वैषम्यविग्रहा ॥ १३ ॥ अग्राम्यत्वशरीरा च या काऽपि स्यादुदारता । ता भग्नप्रक्रम - ग्राम्यदोषत्यागक्रियात्मिकाः ॥ १४ ॥ मार्गापरित्यागः प्रक्रान्तपदबन्धवत्परिहारः स्वरूपं यस्यास्तादृशी या च समताऽभीष्टा । यथा " यच्चन्द्रकोटिकर कोरकभारभाजि बभ्राम बभ्रुणि जटापटले हरस्य । तद् वः पुनातु हिमशैलशिला निकुञ्जझात्कारडम्बरविराजिसुरापगाऽम्भः ।। " अत्रारम्भादापरिसमाप्ति पदबन्धस्यैकरूपतानिर्वाहात् समता । प्रक्रमाभेद एव रूपं यस्य तदेवंविधं यद् वैषम्यं तद्विग्रहः शरीरं यस्यास्तादृशी याच सौ मता । यथा " अग्रे स्त्रीनखपाटलं कुरंबकं श्यामं द्वयोर्भागयोलाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति । १ अ. ०सक० । २ अ ० चंद्रकर० । ३ ब. सा सम० । ४ अ. ०ब० । ५ अ. ०मपो० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy