________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१९४
अलङ्कार महोदधौ
एवं रसान्तरेष्वप्युदाहार्यम् । अयं बन्धगाढत्वमोज इत्यादिकः सर्वोऽपि पुरोऽस्माभिरभिधास्यमानस्योजस एव परिस्पन्दो विस्फूर्जितम् ।
अथ प्रासादान्तर्भावमाह-
ओजोमिश्रश्लथत्वात्मा यः प्रसाद इति स्मृतः ॥ १० ॥ यश्चायमर्थवैमल्यवपुषा विदुषां मतः । या झगित्यर्थसंवित्तिरर्थव्यक्तिरुदाहृता ॥ ११ ॥
यथा
W
Acharya Shri Kailassagarsuri Gyanmandir
वस्तुस्वभावस्फुटतारूपा या चेयमुच्यते । तेऽस्मत्प्रसादप्रासादकक्षालक्ष्मीविडम्बिनः ॥ १२ ॥
ओजोमिश्रं त्वमात्मा यस्य स यः कश्चित् प्रसाद इति स्मृतो यथा
T
44
अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे
नृपतिककुदं दवा यूने सितातपत्रारणम् । मुनिवनतरुच्छायां देव्या तया सह शिश्रिये
गलितवयसामिक्ष्वाकूणामिदं हि कुलवतम् || ५१६ ।। " प्रसादोऽर्थवैमल्यवपुषार्थस्फुटतारूपेण शरीरेण विदुषां कोविदानां
मतोऽभिमतो यथा
" अयमुदयति मुद्राभञ्जनः पद्मिनीनामुदयगिरिवनालीबालमन्दारपुष्पम् । विरहविधुरको द्वन्द्वबन्धुर्विभिन्दन कुपितकपिकपोल कोडताम्रस्तर्मासि || " वाक्यस्य सम्पूर्णत्वात् झगित्यर्थसंवित्तिरूपा याऽर्थव्यक्तिरुदाहृता कथिता ।
१ व झटित्य० ।
" वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वती - परमेश्वरौ ॥ ५१८ ।। "
For Private And Personal Use Only