SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अलङ्कारमहोदधौ या च प्रकटिताबन्धविकटत्वमुदारता । बन्धौज्ज्वल्यं च या कान्तिः प्रदीप्तरसता च याः ॥९॥ पुरोऽभिधास्यमानस्य परिस्पन्दोऽयमौजसः। बन्धगाढत्वं गुम्फनिविडत्वं यदोजो यथा"जयति भुजगरज्जुग्रन्थिनिष्पीडितेन्दुस्रवदमृतनिवृत्तप्रेतभावः कपालैः । विरचितनुतिबन्धो मूर्ध्नि सद्यः पुरा परिणतबहुकम्पब्रह्मणां ब्रह्मघोषः॥५०६॥" अर्थस्य प्रौढिरुत्कर्षो यदाह" पदार्थे वाक्यवचनं वाक्यार्थे च पदार्थता । प्रौढिास-समासौ च साभिप्रायत्वमस्य च ॥ ५०७ ॥" तन्मयं यदोजस्तत्र पदार्थवाक्यवचनं यथा" अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः सुरसरिदिव तेजो वह्निनिष्ठयूतमैशम् । नरपतिकुलभूत्यै गर्भमाधत्त राज्ञी गुरुभिरभिनिविष्टं लोकपालानुभावैः ।।५०८॥" अत्र चन्द्रपदवाच्येऽर्थे नयनसमुत्थं ज्योतिरत्रेरिति वाक्यमुक्तम् । वाक्यार्थे पदार्थता यथादिव्येयं न भवति किन्तु मानुषीति वक्तव्ये निमिषतीत्याह । एवं व्यासादयोऽप्यम्यूह्याः । न चैतेषु वैचित्र्यमन्तरेणातिप्रसङ्गः कार्यों वैचित्र्यैकजीवितत्वाद् गुणानाम् । ____ बहूनामपि पदानामेकपदवद्भावो यश्च श्लेषो यथा" उभौ यदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् । तेनो(तदो)पमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥ ५०९ ॥" आरोहावरोहपरिपाटीरूपो योऽयं समाधिर्यथा“निरानन्दः कौन्दे मधुनि विधुरो बालबकुले न साले सालम्बो लवमपि लवङ्गे न रमते । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy