________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मलकारमहोदधौ अन्ये वामनादयः केचिदाचार्या दश शन्दगतानर्थगतांश्च दश गुणान् जगुरूचिरे । नोऽस्माकं माधुर्योजः-प्रसादास्त्रय एव गुणाः सम्मता अमिमताः
कुत इत्याहयतः पृथक्पदन्यासमूर्ति माधुर्यमत्र यत् । क्रोधादावप्यतीवत्वरूपं यच्चैतदिष्यते ॥ ४ ॥ बन्धस्याजरठत्वं यत् सौकुमार्यामिति स्मृतम् । यच्च वाचामपारुष्यं सौकुमार्यमुदीर्यते ॥ ५ ॥ यः कश्चिदर्थदृष्ट्याऽऽत्मा समाधिरभिधीयते । अर्थस्य घटनारूपो यश्च श्लेषः प्रकीर्तितः ॥६॥ तान्यग्रे वक्तुमिष्टस्य माधुर्यस्य प्रसूतयः। यतो यस्मादत्रैतेषु विंशतौ गुणेषु यत् पृथक्पदन्यासमूर्ति असमासाल्पसमास-पदनिवेशशरीरं माधुर्यं वर्तते । यथा--- " अस्त्युत्तरस्यां दिशि देवताऽऽत्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ तोयनिधी वैगाह्य स्थितः पृथिव्या इव मानदण्डः ॥ ५०१ ॥" यञ्चैतन्माधुर्य क्रोधादावपि हेतौ सत्यचण्डत्वस्वरूपमिष्यते । यथा"भूभेदे सहसोद्गतेऽपि वदनं नीतं परां नम्रता
मीषन्मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम् । अन्तर्बाष्पजडीकृतं प्रभुतया चक्षुर्न विस्फारितं
कोपश्च प्रकटीकृतो दयितया मुक्तश्च न प्रश्रयः ॥ ५०२ ॥" बन्धस्य पदगुम्फस्याजरठत्वमनिष्ठुरत्वं सौकुमार्यमिति यत् स्मृतं यथा
१. पृथक्पृथक । १ प. विगा।
For Private And Personal Use Only