SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणनिर्णयो नाम षष्ठस्तरङ्गः । " मित्रे क्वापि गते सरोरुहवने बद्धानने ताम्यति क्रन्दत्सु भ्रमरेषु वीक्ष्य दयितासमा पुर। सारसीम् । चक्राङ्क(गे)न वियोगिना विसलता नास्वादिता नोज्झिता ___ वक्त्रे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः ॥ ४९९ ॥" इत्यादौ त्वर्थमेवोपमालङ्कारः । बिसलता जीवस्य सूक्ष्मत्वात् त निरोढुं न क्षमते इति प्रकृताननुगुणोपमा । सन्तमिति वचनाच्च यत्र नास्ति रसस्तत्र शब्दार्थवैचित्र्यमापर्यवसायिनोऽलङ्कारास्तच्च प्रथमतरङ्गे दर्शितमेव । एवं च यथा समवायवृत्या शौर्यादयः संयोगवृत्या तु हारादयस्तथैव माधुर्यादयोऽनुप्रासोपमादयश्चेत्यस्तु गुणालङ्कारविवेकः । यत् पुनरुक्तम्-"काव्यशोभायाः कर्त्तारो धर्मा गुणास्तदतिशयहेतवस्त्वलङ्काराः" इति तन्न युक्तम् । यतः किं समस्तैगुणैः काव्यव्यवहाररा?, किं वा कतिपयैः। न तावत् समस्तैरसमस्तगुणाया गौडीयाया: पाश्चान्याश्च रीते काव्यात्मकत्वभावात् । अथ कतिपयैः' अदावत्र प्रज्वलत्यग्निरुचैः प्राज्यः प्रोद्यन्नुल्लसत्येष धूमः' इत्यादावप्योजःप्रभृतिषु गुणेषु सत्सु काव्यव्यवहारप्राप्तः । किंच" स्वर्गप्राप्तिरनेनैव देहेन वरवर्णिनी । अस्या रदच्छदरसो न्यत्करोतितरां सुधाम् ॥ ५० ॥" इत्यादौ तु विशेषोक्ति-व्यतिरेको गुणनिरपेक्षावपि कान्यव्यवहारमात्र प्रवर्तयतः । अत्र तथाविधव्यञ्जकवर्णाभावाद् गुणरहितत्वमिति ॥ २ ॥ अथ गुणालङ्कारविवेकं कृत्वा गुणसङ्ख्यामाहगुणांश्चान्ये जगुः शब्दगतान् दश दशार्थगान् । माधुर्योजः-प्रसादास्तु संमतास्त्रय एव नः ॥ ३ ॥ प, चके केन । २ व. प. ०त्मत्वा० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy