________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८८
अलङ्कारमहोदधौ कीदृशाः सन्तो गुणेभ्यो वैपरीत्यं विभ्रतीत्याह- सन्तं विद्यमानं रसं जात कदाचित् अयन्तोऽपि । यथा"अपसारय घनसारं कुरु हारं दूर एव किं कमलैः ।।
अलमलमालि ! मृणालैरिति वदति दिवानिशं बाला ॥ ४९६ ॥" अत्रानुप्रासो रसपर्यवसायी।
__ यथा वा" मनोरागस्तीवं विषमिव विसर्पत्यविरत
प्रमाथी निधूमं ज्वलति विधुतः पावक इव । हिनस्ति प्रत्यङ्ग ज्वर इव बलीयानित इतो
न मां तातस्त्रातुं प्रभवति न चाम्बा न भवती ॥ ४९७ ॥ " अत्र मालोपमा रसैकनिष्ठा । आत्विति वचनात् कदाचित् सन्तमपि न श्रयन्ति । यथा+ “चित्ते चहुट्टदि न खुट्टदि सा गुणेसु
सेन्जाइ लुढदि विसढदि दिग्मुहेसुं । बोल्डंमि वदि पयदि कव्वबंधे
माणे न तुदि चिरं तरुणी तरु(र)ट्टी ॥ ४९८ ॥" इत्यादौ शब्दमेवानुप्रासः श्रयति, न तु विधमानमपि रसम् ।
+ चित्ते श्लिष्यति न क्षीणाति सा गुणेषु
शय्यायां लुठति विसर्प (कस)ति दिङ्मुखेषु । वचने वर्तते प्रवर्तते काव्यबन्धे
ध्याने न त्रुट्यति चिरं तरुणी प्रगल्भा ।।
१५. ०वर० । २ अ. वस० ।
For Private And Personal Use Only