SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ षष्ठस्तरङः । अथ गुणालङ्कारविवेकमाहशौर्यादय इवात्मानं रसमेव श्रयन्ति ये । गुणास्ते सहजाः काव्ये नित्यवैचित्र्यकारिणः ॥ १॥ यथा शौर्य-स्थैर्य-सच्चादयो गुणा आत्मानमेव श्रयन्ति, नाकारं तथा माधुदियोऽपि रसमेव श्रयन्ति रसस्यैव धर्मा न वर्णसनिवेशस्य ते गुणा इत्यलक्कारेभ्यो भेदः। कचित् पुनर्यथा शौर्योचितस्याकारमहत्त्वादेर्दर्शनात् कचिदशूरेऽपि शूर इति । क्वचित् तु मूर्तिलाघवदर्शनात् शूरेऽप्यशूर इत्यतत्वदर्शिनां व्यवहारस्त. द्वन्मधुर-रसोचितसुकुमारवर्णश्रवणात् क्वाप्यमाधुर्येऽपि माधुर्यमिति, चित् तु माधुर्येऽप्य सुकुमारवर्णश्रवणादमाधुर्यमिति या व्यवहृतिः सा रसपर्यन्तविश्रान्तिज्ञानशून्यानामेव । अत एव माधुर्यादयो रसधर्माः समुचितैर्वर्णैर्व्यज्यन्ते, न तु वर्णमात्रैस्तच्च पुरो वक्ष्यते । कीदृशाः सहजा अनाहार्यस्वरूपाः । अत एव काव्ये नित्यं सदालस्थितं वैचित्र्यमुत्कर्ष कुर्वन्ति । तान् विना हि सालकारस्यापि काव्यस्य काव्यत्वहानिर्यदाह - - " यदि भवति वचञ्युतं गुणेभ्यो वपुरपि यौवनवन्ध्यमङ्गनाया। अपि जनदयितानि दुर्भगत्वं नियतमलङ्करणानि संश्रयन्ते ॥ ४९५ ॥" श्रयन्तोऽपि रसं सन्तं जातु तेभ्यो विपर्ययम् । ये तु बिभ्रत्यलङ्कारास्तेऽनुप्रासोपमादयः॥२॥ ये पुनस्तेभ्यो गुणेभ्यो विपर्ययं विपरीततां विभ्रति, तेऽनुप्रासोपमादयोऽलङ्काराः । गुणा हि शौर्यादिवत् सहजा नित्यवैचित्र्यकारिणश्च । अलङ्कारास्तु हारादिवदाहार्याः । अत एव नित्यं वैचित्र्यं न कुर्वते । कदाचित् तेषामभावेऽपि गुणैकशोभिनः काव्यस्य दर्शनादिति गुणेभ्योऽलङ्काराणां वैपरीत्यमयमेव च भेदः । १ प. म. पुषि यौ० । - - - For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy