SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८४ अलङ्कारमहोदधौ भूरेष(णु)दिग्धान् नवपारिजातमौलारजोवासितबाहुमध्याः । गाढं शिवाभिः परिरम्यमाणान् सुराङ्गनाश्लिष्टभुजान्तरालाः ॥ ४८६ ॥ " संशोणितैः क्रव्य भुजां स्फुरद्भिः पक्षैः खगानामुपवीज्यमानान् । संवीजिताश्चन्दनवारिसेकेः सुगन्धिभिः कल्पलतादुकूलैः ।। ४८७ ।। विमानपर्यङ्कतले निषण्णाः कुतूहलाविष्टतया तदानीम् ।। निर्दिश्यमानाँल्ललना ङ्गुलीभिर्वीराः स्वदेहान् पतितानपश्यन् ॥ ४८८ ॥" अत्र बीभत्स-शृङ्गारयोरन्तरे वीरा इत्यनेनाविष्कृतस्य वीररस्य निवेशान विरोधः । कर्तृकारकस्य च स्वातन्त्र्येण सकलवाक्यव्यापकत्वमिति प्रान्ते स्थितमपि वीरा इत्येतत् पदमादौ मध्ये च द्रष्टव्यम् । स्वदेहानित्यनेनैकत्वाभिमानादाश्रयैक्यम् ।। २२ ॥ विरोधपरिहारान्तरमाहविरुद्धोऽपि स्मृति प्राप्तो वक्तुं साम्येन वा मतः । अङ्गिन्यङ्गत्वमायातौ न विरुद्धौ रसौ मिथः ॥ २३ ॥ प्रकृतरसविरुद्धोऽपि रसः स्मृतिमारोहेन विरुद्धो यथा " अयं स रशनोत्कर्षी पीनस्तनविमर्दनः । ___ नाम्यूरु-जघनस्पर्शी नीवीविप्रेसनः करः ॥ ४८९ ॥" इदं भूरिश्रवसः समरभुवि पतितं हस्तमालोक्य तद्वधूनामनुशोचनम् । अत्र करस्य पूर्वावस्थास्मरणं शृङ्गाराङ्गमपि करुणं पुष्णाति । प्रकृतिरम्या हि पदार्थाः शोच्या दशां गताः स्मर्यमाणपूर्वस्वरूपाः कामं शोकावेगमुन्मीलयन्ति । तथा साम्येन वकुमिष्टोऽपि न विरुद्धः । यथा" दन्तक्षतानि करजैश्च विपाटितानि प्रोनिसान्द्रपुलके भवतः शरीरे । दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिरप्यवलोकितानि॥४९०।" १ व. भूतेषु दि० । २ प. दग्धान् । ३ अ. मलोर० । ४ अ. सुशो० । ५ अ. ०मपवी०।६ प. यन्त• । ७ व, वीरस्य । ८ प. निदे०।९ प. हयन्न । १० व. ०कृता० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy