SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८२ मलकारमहोदधौ मृतौ प्रकृतिव्यत्ययापत्तेर्वाच्यमेवं देश-काल-वयो- जात्यादीनामुचितमेव वेषव्यवहारादिकमुपनिबन्धव्यम् । ____ अनङ्गोपनिवन्धश्चानङ्गस्य रसानुपकारकस्योपनिबन्धो वर्णनम् । यथा कर्पूरमञ्जयाँ नायिकया स्वात्मा च वसन्तवर्णनमनादृत्य बन्दिवर्णितस्य तस्य राज्ञा प्रशंसनमित्यादयः । इत्यादिशब्दानायिकापादप्रहारादिना नायककोपादिवर्णनं ग्राह्यमनुचितत्वेन तस्य रसभङ्गकारित्वात् । यदुक्तं ध्वनिकृता " अनौचित्याद् ऋते नान्यद् रसभङ्गस्य कारणम् । प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत् परा ।।४८१॥" इति ॥१८-२०॥ अथामीषां क्वचिददोषत्वमाहविरुद्धस्यापि सञ्चारिप्रमुखस्य कचिद् गुणः । बाध्यत्वेनाभिधानं यत् तदत्यन्तमनोहरम् ॥ २१ ॥ कचित् पुनर्विरुद्धस्यापि व्यभिचारिप्रभृतेर्यदन्यवाध्यत्वेनामिधानं तम केवलं न दोषः, प्रत्युतात्यन्तमनोहरं प्रकृतरसपरिपोषकारित्वात् । यथा 'काकार्य शशलक्ष्मणः क च कुलम् ' इत्यादौ । अत्र वितकौत्सुक्य-मति-स्मरण-शङ्का-दैन्य-धृति-चिन्तानामुत्तरोत्तरखाध्यत्वेनोपात्तानामपि पर्यन्ते चिन्तायामेव विश्रान्तिरिति तद्बाध्यत्वेन तेषां प्रकृतरसपरिपोषकत्वम् । " पाण्डुक्षामं वक्त्रं हृदयं सरसं तवालसं च वपुः । आवेदयति नितान्त क्षेत्रियरोगं सखि ! हृदन्तः ।। ४८२ ॥" इत्यादौ तु पाण्डुताऽऽदीनी साधारणत्वेन प्रतिकूलत्वमिति द्वयोरपि सखिपरिहासाङ्गत्वमिति वा न विरुद्धत्वम् । १ व. नायिकायाः स्वात्मना । २ व. ०र्णितस्य रा० ! ३ अ. व. चित् पुनः । ४ प. नंत्यम० । ५ प. क्षत्रि० । ६ प. नां तु । ७ व. •त्वं प्र० । ८ व. ०ति स० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy