SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः । १८१ अकाण्डे च्छेदो यथा वीरचरिते द्वितीयेऽङ्के राघव-भार्गवयोर्धाराधिरुढे वीररसे कङ्कणमोचनाय गच्छामीति राघवस्योक्तौ । कचिदङ्गातिविस्तृतिः । क्काप्यङ्गस्याप्रधानस्यातिविस्तरेण वर्णनम् । यथा हयग्रीववधे हयग्रीवस्य । यथा वा शिशुपालवधे शिशुपालं हन्तुं सर्वाभिसारेणाभ्युद्यतस्य हरेर्वीररसानुबन्धेऽपि तदनगभूतानामपि ऋतूपवनविहार-पुप्पावचयादीनां तदित्थमप्रस्तुतवस्तुविस्तृतिः प्रस्तुततिरस्कारिण्यपि महाकविलक्ष्य भूयसा दृश्यते इति तत्त्वं त एव जानन्ति । नाङ्गिनोऽप्यनुसन्धानम् । अङ्गिनोऽपि प्रधानस्यापि नानुसन्धानं न स्मरणम् । यथा रत्नावल्यां चतुर्थेऽके बाभ्रव्यागमने सागरिकाया विस्मृतिः । प्रकृतिव्यत्ययस्तथा । प्रकृतयो दिव्या अदिव्या दिव्यादिव्याश्च । वीररौद्र-शृङ्गार-शान्तरसप्रधाना धीरोदात्त-धीरोद्धत-धीरललित-धीरप्रशान्ता उत्तमाधम-मध्यमाश्च । तत्र रति-हास-शोकाद्भुता अदिव्योत्तमप्रकृतिवद् दिव्ये. ध्वपि वर्णनीयाः; किन्तु रतिः सम्भोगशृङ्गाररूपा उत्तमदेवताविषया न वर्णनीया । तद्वर्णनं हि पित्रोः सम्भोगवर्णनमिवात्यन्तमनुचितम् । क्रोधोऽपि भ्रुकुख्यादिविकारवर्जितः सद्यःफलदो निबन्धनीयः । यथा"क्रोधं प्रभो ! संहर संहरेति यावत् गिरः खे मरुतां चरन्ति । तावत् स वह्निर्भवनेत्रजन्मा भस्मावशेष मदनं चकार ।। ४८० ॥" स्वः-पातालगमन-समुद्रोल्लङ्घनादावुत्साहश्च दिव्येष्वेव । अदिव्येषु तु यावदवदानं प्रसिद्धमुचितं वा तावदेवोपनिबन्धव्यम् । अधिकं तु निबध्यमानमसत्यं प्रतिभासेत । नायकवद् वर्तितव्यम् , न प्रतिनायकवद् इत्युपदेशेनं च पर्यवस्येत् । दिव्यादिव्येषु तूमयथापि । एवमुक्तौचित्यानां दिव्यादीनों धीरोदात्तादीनां च प्रकृतीनामन्यथा वर्णनं व्यत्ययः । तत्र भवन्भगवमित्युत्तमेन नाधमेन, मुनिप्रभृतौ न राजादौ, भट्टारकेति न राजादौ, परमेश्वरेति न मुनिप्र १ व. प्राधान्यस्या० । २ व, ०वस्य । ३ व. पिक. । ४ प. ०क्ष्ये भू० । ५ व. नं स्म०।६ व. अथ । ७व.व्यो दिव्यादि० । ८. न प० । ९व. नां च । १० व. ०ति प्र.. । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy