SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८० अलङ्कारमहोदधौ विभावानां यथा" परिहरति रति मतिं लुनीते स्खलतितरां परिवर्तते च भूयः । इति चत विषमा दशाऽस्य देहं परिभवति प्रसमं किमत्र कुर्मः १ ॥" अत्र रतिपरिहारादीनामनुभावादीनां करुणादावपि सम्भवात् कामिनी. रूपो विभावो यत्नप्रतिपाद्यः । विभावादिप्रतीपत्वं प्रातिकूल्यं यथा" प्रसादे वर्तस्व प्रकटय मुंदं सन्त्यज रुषं प्रिये ! शुष्यन्त्यङ्गान्यमृतमिव ते सिश्चतु वचः। निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं न मुग्धे ! प्रत्येतुं प्रभवति गतः कालहरिणः ।। ४७९ ॥" अत्र कालो हरिण इव शीघ्रं गच्छति, न च पुननिवर्तत इत्यनित्यताप्रकाशनरूपः शृङ्गारप्रतिकूलस्य शान्तस्य विभाव इति विभावप्रतीपत्वं तत्प्रकाशितो निर्वेदश्च स्वदत इति व्यभिचारिप्रतीपत्वं च । एवं शृङ्गार-बीभत्सयोर्वीर-भयानकयोः शान्त-रौद्रयोरप्युदाहार्यम् । भूयो भूयश्च दीपनम् । यथा कुमारसम्भवे रतिप्रलापेषु । रसो हि स्वसामग्रीलब्धपरिपोषः पुनः पुनः परामृश्यमानः परिम्लानकुसुमकल्प: कल्पत इति । ____अप्रस्तावे प्रथा-च्छेदौ । तत्राकाण्डे प्रथा प्रथनम् । यथा वेणीसंहारे द्वितीयेऽङ्के वीरलक्षक्षयकारिणि समरसंरम्भे प्रवृत्ते वीरोद्धतस्यापि दुर्योधनस्य भानुमत्याँ सह शृङ्गारवर्णने । १ अ. लुनाति । २ व. रिहर त० । ३ प. यत्र । ४ व. सुदं त्य० । ५ अ. वीणासं० । ६ व. ०त्याह । ७ व. ०वर्णान् । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy