SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः । १७९ सेा जह्वसुताऽवलोकनविधौ दीना कपालोदरे पार्वत्या नवसङ्गमप्रणयिनी दृष्टिः शिवायास्तु वः ॥ ४७५ ॥" अत्र व्रीडादीनां 'व्यानम्रा दयितानने मुकुलिता मातङ्गचर्माम्बरे सोत्कम्पा भुजगे निमेषरहिता चन्द्रे सुधास्यन्दिनि । मीलद्भः सुरसिन्धुदर्शनविधौ म्लाना कपालोदरे' इत्यादिपाठो युक्तः । विना सञ्चारिभिः कचित् इति वचनात् क्वचिन दोषः । यथा" औत्सुक्येन कृतत्वरा सहभुवा ब्यावर्तमाना हिया . तैस्तैर्बन्धुवधूजनस्य वचनैर्नीताऽऽभिमुख्यं पुनः । दृष्ट्राग्रे वरमात्तसाध्वसरसा गौरी नवे सङ्गमे संरोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः ॥ ४७६ ॥" अत्रौत्सुक्यशब्द इव तदनुभावो न तथा प्रतीतिकृत् । अत एव 'एष्यत्युत्सुकमागते विचलितम् ' इत्यादौ ग्रीडाद्यनुभावानां विचलितत्त्वादीनामिवोत्सुकत्वानुभावस्य सहसा प्रसरणादिरूपस्य तथाप्रतीतिकारित्वाभावादुत्सुकमिति कृतम् । या च क्लेशकता व्यक्तिरनुभाव-विभावयोः। तत्रानुभावानां यथा“ कर्पूरधूलिधवलद्युतिपूरधौतदिग्मण्डले शिशिररोचिषि तस्य यूनः । लीलाशिरोंऽशुकनिवेशविशेषक्लृप्तिव्यक्तस्तनोन्नतिरभून्नयनावतंसा ॥" अत्रोद्दीपनालम्बनरूपाः शृङ्गारयोग्या विभावा अनुभावापर्यवसायिनः स्थिता इत्यनुभावानां क्लेशव्यक्तिः । १ अ. ०ता च० । २ प. द्वः । ३ अ. व. ०चर० । ४ प. हसिता, व. सहसा । ५ प. ०वौत्सुक्य० । ६ व. ०वनौ सा । ७ प. स्थायि० । ८ व. ०वानां य० । ९ प. व. व्यक्तिः । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy