________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ नागिन्नोऽप्यनुसन्धान प्रकृतिव्यत्ययस्तथा ।
अनङ्गोपनिबन्धश्च दोषा इत्यादयो रसे ॥ २० ॥ इत्यादयः स्वशब्दोक्त्यादयो रसे रसाश्रया दोषाः । तेषु रसादीनां स्वशब्दोक्तिः । रसादीनां रस-स्थायि-व्यभिचारिणां स्वशब्देनोक्तिः कथनम् । तत्र रसस्य स्वशब्देन शृङ्गारादिशब्देन वाऽभिधेयत्वम् । यथा
" शृङ्गारी गिरिजानने सकरुणो रत्या प्रवीरः स्मरे ___ बीभत्सोऽस्थिभिरुत्फणी च भयकन्मूर्त्याऽद्भुतस्तुङ्गया । रौद्रो दक्षविमर्दने च हसनग्नः प्रशान्तश्चिरा
दित्थं सर्वरसात्मकः पशुपतिर्भूयात् सतां भूतये ।। ४७३ ।।" अत्र रैसशब्दस्य शृङ्गारादिशब्दानां च प्रयोगः ।
__ स्थायिनां यथा" सम्प्रहारे प्रहरणैः प्रहाराणां परस्परम् ।
टणत्कारैः श्रुतिगतैरुत्साहस्तस्य कोऽप्यभूत् ।। ४७४ ।।" अत्रोत्साहस्य यत्रापि स्वशब्देनाभिधानमस्ति, तत्रापि विभावादिप्रतिपादनमुखेनैव रसादीनां प्रतीतिः । स्वशब्देन तु सा केवलमनूद्यते । यथा-'याते द्वारवतीम् ' इत्यादि ।
अत्र विभावानुभावबलादेवोत्कण्ठा गम्यते । सोत्कण्ठशब्दस्त्वनुवादक एव । उक्तमित्यस्यावकाशदानाय च सोत्कण्ठशब्दप्रयोग इत्यनुवादस्यापि नान.
धक्यम् ।
व्यभिचारिणां यथा" सबीडा दयितानने सकरुणा मातङ्गचर्माम्बरे
सत्रासा भुजगे सविस्मयरसा चन्द्रे सुधास्यन्दिनि ।
१५. ०दोक्तिः । २ प. रागि० । ३ व. ०क्व र० । ४ व. सश०। ५. सहा । ६ प. मत्रा० ७ . विभावकः । ८ व. . ०ब्द इ. ।
For Private And Personal Use Only