SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः । न दोषो न गुणः क्वचित् ॥ १७ ॥ Acharya Shri Kailassagarsuri Gyanmandir क्वापि काव्ये पुनरसंस्कारादीनां न दोषत्वं न गुणत्वम् । तत्र समाप्तपुनरारब्धस्य यथा- प्रागप्राप्तनिशुम्भशाम्भव -' इत्यादि । यत्र हि विशेषणमात्रं तच्छब्दालङ्कृतं वाक्यान्तरं वा पुनरुपादीयते तत्र दुष्टत्वम् । यत्र तु यच्छब्देन स्वरूपमात्रकथनाय पुनर्वाक्यान्तरमारभ्यते तत्र न दोषो नापि गुणः कश्चित् । न्यूनस्य यथा ' तिष्ठेत् कोपवशात् प्रभावपिहित - ' इत्यादि । अत्र ' पिहित ' इति पदाद् ' भवेद्' इति पदाच्चानन्तरं नैतद् यते ' इत्येतैः पदैर्न्यनैर्विशेषबुद्धेरकरणान्न गुणः । ' पूर्वां प्रतिपत्तिमुत्तरा प्रतिपत्तिर्वाधते ' इति न दोषः । दुःश्रवस्य यथा— " शीर्णघ्राणांहि - पाणीन् घृणिभिरपघनै घर्घराव्यक्तघोषोन् दीर्घाघ्रातानघौघैः पुनरपि घटयत्येक उल्लाघयन् यः । घर्माशोस्तस्य वोऽन्तर्द्विगुण घन घृणा निघ्ननिर्विघ्नवृत्ते १७७ दत्ताः सिद्धसङ्घैर्विदधतु घृणयः शीघ्रमहोविघातम् ॥ ४७२ ॥ " १ व ०त या १ २ प. व. ०घोरान् । १३ अत्र नीरसत्वादेव दोष - गुणत्वाभावः ॥ १७ ॥ अथ रसदोषानाह रसादीनां स्वशब्दोक्तिर्विना सञ्चारिभिः क्वचित् । या च क्लेशकृता व्यक्तिरनुभाव-विभावयोः ॥ १८ ॥ विभावादिप्रतीपत्वं भूयो भूयश्च दीपनम् । अप्रस्तावे प्रथा - च्छेदौ कचिदङ्गातिविस्तृतिः ॥ १९ ॥ For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy