SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१६] अलङ्कारमहोदधि" पणमह भवभयहरणं पयकमलजयं नरिंदपहगुरुणो । जाण तव-चरणरेहा न लंघिया दुट्ठसत्तेहिं ॥ " वि. सं. १३८५-१४०५ वर्षे राजशेखरसूरिनरेन्द्रप्रभसूरिमेतद्ग्रन्थकर्तुत्वेन संस्मरति स्म न्यायकन्दलीपञ्जिका-प्रशस्तौ [श्लो. १६,पी.रि.३,२७१ ] " तस्य गुरोः प्रियशिष्यः प्रभुनरेन्द्रप्रमः प्रभावात्यः । योऽलङ्कारमहोदधिमकरोत् काकुत्स्थकेलिं च ॥" इतः सप्तशत्या वर्षेभ्यः प्राक् तादृशं सन्तोषकर काव्यरहस्यनिर्णायकं कविकलासर्वस्वज्ञापकं शास्त्रमुपलभ्यमानं नासीदिति मन्त्रीश्वरवस्तुपालस्याभ्यर्थनया तत्प्रमोदाय साहित्यतत्त्वज्ञ-कविकलाविद्-गुरुनरच द्रसूरिनिदेशेन नरेन्द्रप्रभसूरिणाऽष्टतरङ्गविभक्तोऽयमलङ्कारमहोदधिनिर्ममे । प्राच्यैरलङ्कारकारैः प्रकाशितानां वचसां सारसङ्ग्रहरूपे कृतिः । स्वानि काव्यालङ्कारसूत्राणि स्वयं विकृतानि इत्यत्र स्पष्टं समसूर्वि । वि. सं. १२८२ वर्षे निष्पन्नाया अस्य वृत्तेश्च प्रमाणं सार्धचतुष्टयसहस्र १ कथारत्नसागरे (श्लो. ८), अलङ्कारमहोदधौ च (लो. १६)" अन्येधुभक्तितो मौलौ निधाय करकुड्मलम् । तेन विज्ञपितः श्रीमान् नरचन्द्र(न्दो) मुनीश्वरः॥" " केचिद् विस्तरदुस्तरांस्तदितरे संक्षेपदुर्लक्षणाः सन्त्यन्ये सकलाभिधेयविकलाः क्लेशावसेयाः परे । इत्थं काव्यरहस्यनिर्णयबहिभूतैः प्रभूतैरपि प्रन्यः श्रोत्रगतः फर्थितमिदं कामं मदीयं मनः ॥ तन्मे मातिसविस्तरं कविकलासर्वस्वगर्वोद्धरं शास्त्रं ब्रूत किमप्यनन्यसपशं बोधाय दुर्मेधसाम् । इत्यभ्यर्थनया प्रतीतमनसः श्रीवस्तुपालस्य ते श्रीमन्तो नरचन्द्रसूरिगुरवः साहित्यतत्वं जगुः ॥ तेषां निदेशादय सद्गुरूणां श्रीवस्तुपालस्य मुदे तदेतत् । चकार लिप्यक्षरसंनिविष्टं सूरिनरेन्द्रप्रमनामधेयः ॥" काव्यालङ्कारसूत्राणि स्वानि किश्चिद् विवृण्महे । तन्मनस्तन्मयीकृत्य विभाव्यं कोविदोत्तमैः ॥ नास्ति प्राच्यैरलङ्कारकारैराविकृतं न यत् ।। कृतिस्तु तवासारसङ्ग्रहव्यसनादियम् ॥" --अलङ्कारमहोदधि-प्रारम्भ [ ओ. १७...] For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy