________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रस्तावना।
" तवंशे नरचन्द्रसरिरभवत् सच्छास्त्रसङ्गीतभृत् । __तस्माच्छीतिलकाभिधो गुरुरभूई यहत्तदीक्षस्त्वहम् ।।"
वि. सं. १४०५ वर्षे राजशेखर सूरिमन्त्रिवस्तुपालमातृपक्षगुरुत्वेन सुरत्राणसन्मानितनागपुरीयसाधुपूनडस्य वन्दनीयकुलगुरुत्वेन च सूरिमेनं समसूचयत्
" इतश्च नागपुरे साधुदेल्हासुतः साधुपूनडः श्रीमोजदीनसुरत्राणपत्नो-बीबी[चन्द्रकला]प्रतिपन्नबान्धवोऽश्वपति- गजपति-नरपतिमान्यो विजयते । तेन प्रथम शत्रुञ्जये यात्रा त्रिसप्तत्यधिकहादशशत[ १२७३ ]वर्षे बब्बेरपुराद विहिता | द्वितीया सुरत्राणादेशात् षडशीत्यधिकद्वादशशतसङ्ख्ये[१२८६] वर्षे मागपुरात् कर्तुमारब्धा । xx [ धवलक्कके ] सरस्तीरे स्थितः पूनडः कुलगुरुमलधारिश्रीनरचन्द्रमरिपावशन् ववन्दे ।"
मन्त्रीश्वरवस्तुपालस्वर्गारोहणसमयप्रकाशकस्य चैतस्य नरचन्द्रसूरेः स्वर्गगमनं वि. सं. १२८७ वर्षे सममनि, इति राजशेखरसूरिरेवेत्थं निर्दिशति स्म
" अथ विक्रमादित्यात् १२९८ * वर्ष प्राप्तम् । श्रीवस्तुपालो ज्वररुक्लेशेम पीडित: तेजःपालं सपुत्र-पौत्रं स्वपुत्रं च जयन्तसिंहमभाषत- "वत्सा:! श्रीनरचन्द्रसूरिभिर्मलधारिभिः १२८७ वर्षे भाद्रपदवदि १० दिने दिवगमनसमये वयमुक्ताः"मन्त्रिन् ! भवतां १२९८ * वर्षे स्वर्गारोहो भविष्यति । ' तेषां च वांसि न चलन्ति, गी:सिद्धिसम्पन्नत्वात् । "-प्रबन्धकोषे [ वस्तुपालप्रबन्धे ]
__ नरेन्द्रप्रभसूरिः। अलङ्कारमहोदधिविधातुरस्य स्मरणं प्राप्यतेऽन्यत्र प्राकृतभाषायां सदगुरुपद्धतौ [गा. १९-२१ पो. रि. ५, ९८] इत्थम
* किन्तु नैतद् यथास्थितं ज्ञायते, यतो मन्त्रीश्वरवस्तुपालसमकालीनमहाकविबालचन्द्रसूरिणा वस्तुपालपुत्रजयन्तसिंहमनोविनोदाय विरचिते वसन्तविलाससंज्ञके महाकाव्ये (गा. प्रा. पं.) १४ सर्ग, श्लो. ३७ मं. वस्तुपाल-स्वर्गवासो वि. सं. १२९६ वर्षे माघे शु. ५ रविवासरे हन्ध व्यावर्णि
" वर्षे हर्षनिषण्ण-पण्णवतिके श्रीविक्रमोर्चामृतः ___ कालाद् द्वादशसह यहायनशतात् मासेऽत्र माघाह्वये । पञ्चम्यां च तिथी दिनादिसमये वारे च भानोस्तवोद्
वोढुं सद्गतिमस्ति लग्नमसमं तत् स्वर्यतां स्वर्यताम् ॥"
For Private And Personal Use Only