SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१४] अलकारमहोदधिनरेन्द्रप्रभसूरिः स्वीयायामन्यत्र कृतौ विवेककलिकायामपि समस्मरद गुरुमेनम्" श्रीदेवप्रभसूरिपादकमलद्वन्द्वद्विरेफोपमा धन्यः श्रीनरचन्द्रसूरिजलदोपास्तिक्रियाचातकः । आचार्यों मलधारिगच्छसरसीराजीवमूर्तिय॑धा देतामात्मकृते' विवेककलिकां श्रीमन्नरेन्द्रप्रभः ॥" वि.सं. १३२४ वर्षे समरादित्यसंक्षेपे [श्लो. २३] भूरिकविकाव्यसंशोधक: प्रद्युम्न मूरिरुत्तराध्ययनवाचनादातृत्वेन विद्यागुरुबुद्दयाऽस्मै नमस्कारं प्रकटीचकार"श्रीमते नरचन्द्राय नमोऽस्तु मलधारिणे। ददे मेऽनुत्तरा येनोत्तराध्ययनवाचना ।। " हर्षपुरीय( मलधारि )गच्छगौरवकारिणां सद्गुरूणां पद्धतौ नमनीय-वन्दनीयत्वेन संस्मरणमुपलभ्यते सूरिवर्यस्यैतस्य " दसणनिज्जियससहरसिरीण गुणरयणरोहणगिरीण । नमिमो खंतिमहि-महाकिरीण नरचंदसूरीण ॥ लच्छीमयं च विजामयं च नीसेसगुणगणमयं च । चरणारविंदरेणुं वंदे नरचंदरीण ॥" वि. सं. १३८५-१४०५ वर्षे राजशेखरसूरिनिजपूर्वजगुरु-परम्पराविभूषकमेनमित्थं परिचाययति स्म न्यायकन्दली-पञ्जिका-प्रशस्तौ [ श्लो. १४-१५ ] " तदीयसिंहासनसार्वभौमसूरीश्वरः श्रीनरचन्द्रनामा । सरस्वतीलब्धवरप्रसादस्त्रविद्यमुष्टिन्धयधीर्बभूव ॥ टिप्पनमनयराघवशास्त्रे किल टिप्पनं च कन्दल्याम् । सारं ज्योतिषमभद् यः प्राकृतदीपिकामपि च ॥" वि. सं. १३८०-१४०६ वर्षे वाचनाचार्यसुधाकलशो निजपूर्वनगुरुपरम्परायां संस्मरति स्म सूरिमेनं सङ्गीतोपनिषत-सारे [ अ. ६, श्लो. ४९ ] १ 'मलधारिशीनरेन्द्रप्रभसूरीणां विवेकपादपो नाम मूक्तसमुच्चयः' इत्युसिखानन्तरं विवेककलिकायाम् [श्लो. ११०; पत्तन-सूच्याम् १, पृ. १८७ ] २ " सङ्गीतोपनिषद्ग्रन्थं खाष्टाग्नि-शशि[ १३८० ]वत्सरे । ऋतु-शून्य-युगेन्द्वन्दे [ १४०६ ] तत्सारं चापि निर्ममे ॥" । __-सङ्गीतोपनिषत्सारोद्धारे [ अ. ६, को. ५१ ] For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy