________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः । व्याख्या-स त्वां सर्वदा नित्यमुमाधवः शङ्करः मायादन्धकस्य दैत्यविशे. षस्य क्षयं विनाशं करोतीति । येन वस्तमनोभवेन क्षपितस्मरेण बलिजितः कृष्णस्य कायः पुरा पूर्व कुवेता त्रिपुरदाहमस्त्रीकृतो बाणीकृतः। यश्च दुष्टभोगिहारवलयो यश्च गङ्गां सुरसिन्धुमधारयत् । यस्य शिर शशिमन्मृगाङ्कयुक्तं हर इति च नाम स्तुत्यं स्तोतव्यममरा आहुः कथयन्ति । माधवोऽपि पायात् । सर्वदः सर्वप्रदस्तथाऽन्धकेषु वृष्णिषु क्षयं निवासं करोतीति । येनाभवेन संसारमुक्तेन ध्वस्तं भग्नमनः शकटं बलिजित् स्वकीयः कायश्च पुरा मुरवधे स्वीकृतो नारीत्वं प्रापितः । यचोद्धत्तभुजङ्गहा कालिकाख्यं नागं हतवान् । खलयो खे शब्दब्रह्मणि लयो लीनता यस्य तथाऽगं पर्वतं गोवर्द्धनाख्यं गां पृथिवीं च कूर्मादिरूपेण यो धृतवान् । यस्य च शशिर्मच्छिरोहर इति शशिनं मनातीति शशिमत् सैहिकेयस्तस्य शिरो हरतीत्येवं नाम सुरा आहुः । अत्र माधवपक्षे शशिमत्-क्षयशब्दावप्रयुक्त-निहतार्थों श्लेषाश्रयेण गुणभूती ।
जुगुप्साऽश्लीलस्य यथा"पमान्यांशुनिष्ठ्युताः पीत्वा पावकविप्रुषः ।
भूयो वमन्तीच मुखैरुद्गीर्णारुणरेणुमिः ।। ४५९॥" अत्र निष्ठ्यूतोद्गीर्ण-वान्तीना जुगुप्साहेतूनामप्युपचाराश्रयणाद् गुणत्वम् ।
यथा वा" उत्तानोच्छूनमण्डूकपाटितोदरसन्निभे।
क्लेदिनि स्त्रीव्रणे सक्तिरकृमेः कस्य जायते ॥ ४६० ॥" अत्र वक्तुः शमैकनिष्ठत्वाद् गुणत्वम् । .
___ अमङ्गलाश्लीलस्य यथा
अ. ०य क० । २ अ. ०तः का० । ३ व. शिशिरमृन्मृ० । ४ प. विनाश । ५ व. रोति । ६ व. रा 40, प. पुरा मरु० । ७ व. नल० । ८ व. ०मस्थिरोह । ९ क. न्युनि० | १० म. हिता० । ११ व. ०णभूतो ।
For Private And Personal Use Only