________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दोषव्यावर्णनो नाम पश्चमस्तरङ्गः ।
१७१ अत्र विदुषकोक्तत्वात् कलमकूर-महिषीदधिशब्दानां ग्राम्याणामपि गुणत्वम् ।
सन्दिग्धस्य यथा" पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव ।।
विलसत्करेणुगहनं सम्प्रति सममावयोः सदनम् ।। ४५० ॥" अत्र सन्दिग्धत्वमपि व्याजस्तुतिपर्यवसायित्वाद् गुणः ।
दुःश्रवस्य यथा" दीधी-वेवीङ्समः कश्चिद् गुण-वृद्ध्योरभाजनम् । उत्प्रत्ययनिमः कश्चिद् यत्र सनिहिते न ते ॥ ४५१ ॥"
यथा च
" यदा त्वामहमद्राक्षं पद्यविद्याविशारद ।।
उपाध्यायं तदाऽस्मार्ष समस्त्राक्षं च सम्मदम् ॥ ४५२ ॥" इत्यादौ वक्त-बोद्धव्ययोवैयाकरणत्वाद् गुणत्वम् ।
यथा वा
" अन्त्रप्रोतवृहत्कपाल लकक्रूरक्कणकरण
प्रायप्रेलितभूरिभूषणरवैराघोषयन्त्यम्बरम् । पीतच्छदितरक्तकर्दमघनप्राम्भारपोरोल्ललद्
व्यालोलस्तनभारभैरववपुर्दपोंर्द्रत धावति ॥ ४५३ ॥" अत्रं तु रौद्ररसाश्रयित्वात् ।
यथा च
१ प. गुणत्वम् । २ व. प. जित्प्र०।३ व. यथा । ४ अ. नर० । ५ प. प्रापं । ६ व. ०प्राधार० । ७. ०३पु द० । ८ प. द्धरं । ९ प. ०१ रौ० ।
For Private And Personal Use Only