SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः । " अभिनववधूरोषस्वादुः करीपतनूनपा दसरलजनाश्लेषक्रूरस्तुषारसमीरणः । गलितविभवस्याज्ञवाद्य द्युतिर्मसृणा रवे विरहिवनितावक्त्रक्लैब्यं बिभर्ति निशाकरः ॥ ४३४ ॥" अत्र ' उपमानं सामान्यैः ' [ हैम ३ । १ । १०८] इति समासविशेषस्य प्रक्रान्तस्याज्ञवेत्यस्मिन्निवशब्दप्रयोगात् क्लैब्यमित्यत्र तद्धितप्रयोगांच्चानिवाहेऽपि भणितिविच्छित्युत्कर्षाद् गुणत्वम् । अक्रमस्य यथा" जुगुप्सत स्मैनमदुष्टांव मैवं भवानक्षतसाधुवृत्तः । इतीव वाचो निगृहीतकण्ठैः प्राणैररुध्यन्त महर्षिसूनोः ।। ४३५ ॥" अत्र ' मा स्म जुगुप्सत' इति वक्तव्ये ' जुगुप्सत. स्मैनमदुष्टभावं मा' इति क्रमलोपस्यापि व्यस्तेऽपीच्छन्ति केचिदिति विशेषलक्षणत्वाद् गुणत्वम् । न्यूनस्य यथा" मा भवन्तमनला पवनो वा वारणो मदकलः परशुर्वा । वाहिनीजलभरः कुलिशं वा स्वस्ति तेऽस्तु लतया सह वृक्षः ॥४३६॥" अत्र दहत्वित्यादिभिः क्रियाभियुनस्याप्यतिप्रसिद्ध्या तासां प्रतीयमानत्वाद् गुणत्वम् । सङ्कीर्णस्य यथा"बाले ! नाथ ! विमुश्च मानिनि ! रुषं रोषान्मया किं कृतम् ? खेदोऽस्मासु, न मेऽपराध्यति भवान् , सर्वेऽपराधा मयि । तत् किं रोदिषि गद्गदेन वचसा ?, कस्याग्रतो रुद्यते ? नन्वतन्मम का तवास्मि ! दयिता, नास्मीत्यतो रुद्यते ।। ४३७॥" १ व. ०धूदोष० । २ व. क्रांताशे० । ३ व. वेत० । ४ व. ०गानि० । ५ प. ऽति । । व. ०वं माति० । ७ व. न्यूनसाप्यविप्रः । ८ अ. स्याति० । ९ अ. ते पत्र । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy