SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः । १६५ पथा वा-' त्यज करिकलभ ! त्वं प्रेमबन्धं करिण्या।' अत्र करिशब्दस्ताद्प्यप्रतीतिकृत् । यत्रं तु न सन्निधानादिप्रतिपत्तिर्यथा" ज्याबन्धनिःस्पन्दभुजेन यस्य विनिःश्वसद्वक्त्रपरम्परेण । कारागृहे निर्जितवासवेन दशाननेनोषितमाप्रसादात् ।। ४२८ ॥" तथा" पाण्ड्योऽयमंसार्पितलम्बहारः क्लुप्ताङ्गरागो हरिचन्दनेन । आमाति बालातपरक्तसानुः सनिझरोद्गारमिवाद्रिराजः ॥ ४२९ ॥" इत्यादिः । तत्र केवला एव ज्यादिशब्दाः प्रयुज्यन्ते ॥ १५ ॥ अथानन्तरोक्तस्यार्थस्य सार्वत्रिकप्रसङ्गनिषेधार्थमाह समर्थनमिदं किन्तु स्थितेष्वेवापरेषु नो । किन्तु किं पुनरिदं पूर्वोक्तं समर्थनं स्थितेष्वेव प्राचीनकविनिबद्धेष्वेव, नापरेषु नितम्ब-कावी-उष्ट्र-करभप्रभृतिषु, तेषां प्राकविभिरनादृतत्वात् । अथोक्तदोषाणां किश्चिदपवादमाहप्रसिद्धिस्पर्शिनः क्वापि निर्हेतोरप्यदुष्टता ॥ १६ ॥ हेतुरहितस्याप्यर्थस्य क्वाप्यदुष्टता । कथम्भूतस्य ? प्रसिद्धिस्पर्शिनः प्रसि. द्धस्येत्यर्थः । यथा" चन्द्रं गता पद्मगुणान्न मुझे पद्माश्रिता चान्द्रमसीमभिख्याम् । उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ।। ४३० ॥" १ व. अत्र । २ व. संधिना० । ३ अ. ०वक्षप० । ४ प. नेन । ५ व. किंतु किं पु० । ६ अ. भुंक्तं । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy