SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६४ अलङ्कारमहोदधौ अवतंसादीनि हि कर्णाद्याभरणान्येव तत्र कर्णादिप्रयोगो नौचिती चुम्बत्वाधिक्यदोषात् । सन्निधानादिकं तु ब्रुवाणः प्रत्युत वैचित्र्यावह एव । यथा " अस्याः कर्णावतंसेन जितं सर्व विभूषणम् । तथैव शोभतेऽत्यन्तमस्याः श्रवणकुण्डलम् ॥ ४२३ ।।" यथा वा" अपूर्वमधुरामोदेप्रमोदितदिशस्ततः । आययुभृङ्गमुखराः शिरशेखरशालिन। ॥ ४२४ ॥" अनयोः कर्ण-श्रवण-शिरःशब्दाः सन्निधानप्रतीत्यर्थाः । ___ यथा च" विदीर्णाभिमुखारातिकराले सङ्गरान्तरे । धनुाकिणचिह्वेन दोष्णा विस्फुरितं तव ।। ४२५ ॥" अत्र धनुःशब्द ऑरूढत्वप्रतीतिकृत् । यथा वा" प्राणेश्वरपरिष्वङ्गविभ्रमप्रतिपत्तिभिः । मुक्ताहारेण लेसता हसतीव स्तनद्वयम् ॥ ४२६ ॥" अत्र मुक्तानामन्यरत्नामिश्रितत्वबोधकृत मुक्ताशब्दः । यथा च" सौन्दर्यसम्पत् तारुण्यं यस्यास्तत् ते च विभ्रमाः । पद्पदान पुष्पमालेव कान् नाकर्षति सा सखे ! ॥ ४२७॥" अत्र मालाशब्दः पुष्पदामन्येव सङ्केतित इत्युत्कृष्टपुष्पप्रतीत्यर्थ पुष्पशब्दः । तर्हि कथं रत्नमालेत्यादि, तत्रोपचारात् तत्प्रयोगः । १ अ. इति । २ व. ०मोदाः प्र० । ३ व. वा । ४ अ. ०ब्द रू० । ५ प. ०हस । ६ अ. प. कांता क., व. कां क० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy