SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः । अथ निर्हेतुर्यस्य हेतुर्निमित्तं नास्ति । यथा 46 गृहीतं येनासीः परिभवभयान्नाचितमपि प्रभावाद् यस्याभून्न खलु तत्र कश्चिन्न विषयः । . परित्यक्तं तेन त्वमसि सुतशोकान्न तु भयाद् " विमोक्ष्ये शस्त्र ! त्वामहमपि यतः स्वस्ति भवते ।। ४२१ ।। अत्र स्वयं शस्त्रमोचने हेतुर्नोपात्त:, यत इति च तत इत्यर्थे । अथ सहचरभिन्नो योग्य सहचारिभ्यः पृथग्भूतः । यथा - " श्रुतेन बुद्धिर्व्यसनेन मूर्खता मदेन नारी सलिलेन निम्नगा । निशा शशाङ्केन धृतिः समाधिना नयेन चालकियते नरेन्द्रता ||४२२ || " १६३ अत्र श्रुत-बुद्ध्यादिभ्यः प्रकृष्टेभ्यः सहचारिभ्यो व्यसन - मूर्खतयोरप कृष्टत्वाद् भिन्नत्वम् । अथ विमुक्त पुनरादृतः । यो विमुच्य पुनराद्रियते । यथा - ' लग्नं रागावृताङ्ग्या' इत्यादि । अत्र 'विदितं तेऽस्तु' इत्युपसंहृतोऽपि तेनेत्यादिना पुनरुपात्तः । यत्रैको दोषस्तत्र दोषान्तराण्यपि सन्ति तथापि तेषामप्रकृतत्वात् तत्र प्रका शनं न कृतम् ॥ ११-१४ ॥ अर्थं कियतामपि शब्दानामाधिक्यदोषं निषेद्धुमाह कर्णादिश्रुतयः कर्णावतंसादिपदस्थिताः । सन्निधानादि जल्पन्त्यो वैचित्रीं तन्त्रते पराम् ॥ १५ ॥ कर्णावतंसादिषु पदेषु स्थिताः कर्णादि [श्रुतयः ] शब्दः सन्निधानादि प्रत्यासभ्यादिकं जल्पन्त्यो ब्रुवाणाः काव्ये परां वैचित्रीं सौन्दर्यं तन्वते विस्तारयन्ति । For Private And Personal Use Only १ व ० रिभया० । २ व यतः । ३ अ. ०ति त० । ४ प र्व्य सेन । ५ व. ० योप० । ६ व. ०ण्यपि तेषामकृ० । ७ व. अत्र । ८ व परां वै० । ९ अ, जल्तो ।
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy