SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः । अथ दुष्टविध्यनुवादभाग् यो दुष्टौ विध्यनुवादौ भजते । यथा" प्रयत्नपरिबोधितः स्तुतिभिरद्य शेषे निशा मकेशवमपाण्डवं भुवनमद्य निःसोमकम् । इयं परिसमाप्यते रणकथाऽद्य दो शालिना मेपैतु रिपुकाननातिगुरुरद्य भारो भुवः ॥ ४१४ ॥" अत्र ‘शयितः स्तुतिभिः प्रयत्नेन बोध्यसे' इति शयनानुवादेन बोधो विधेयस्ततश्चानुवादो विधिश्चात्र वैपरीत्येन कृतौ । - अथ परिवृत्तः संसामान्यविशेषात् सामान्येन विशेषेण च सहितानियमानियमद्वाँनियमादनियमाच परिवृत्तो विनियमितस्ततश्च सामान्यपरिवृत्तो विशेषपरिवृत्तो नियमपरिवृत्तोऽनियमपरिवृत्तश्चेति चतुर्धा । तत्राद्यो यथा" कल्लोलवेल्लितदृषत्परुषप्रहारै रत्नान्यमूनि मकराकर ! माऽवमंस्थाः । किं कौस्तुभेन विहितो भवतो न नाम यांच्याप्रसारितकरः पुरुषोत्तमोऽपि ॥" अत्रैकेन किं न विहितो भवतः स नामेति सामान्ये वाच्ये कौस्तुभेनेति विशेष उक्तः। द्वितीयो यथा" श्यामा श्यामलिमानमानयत भोः ! सान्द्रैमषीकूर्चक मन्त्रं तन्त्रमथ प्रयुज्य हरत श्वेतोत्पलानां स्मितम् । चन्द्रं चूर्णयंत क्षणाच्च कणशः कृत्वा शिलापट्टके। येन द्रष्टुमहं क्षमे दश दिशस्तद्वक्त्रमुद्राङ्किताः ॥ ४१६ ॥" अंत्र ज्योत्स्नीमिति विशेषे वाच्ये सामान्यमुक्तम् । तृतीयो यथा १ अ. न...निः० । २ व. ०मपि तु । ३ व. ०त्तश्चेति, प. समासान्य० । ४ प. द्वयावनि० । ५ अ. यात्रा० । ६ व. ०लिमानय० । ७ व. ०न्त्रं प्र० । ८ व. ०यतत्क्ष. । व. ०द्वख० । १० व. यत्र। For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy