________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ अत्र पग्रिन्या नक्तं कुमुद्वत्या अह्नि मधौ निचुलानामुनिद्रताऽऽद्यभाषानिदाघस्य मेघदुर्दिनत्वाभावाच्च कालविरुद्धः ।
कविसमयविरुद्धो यथा" इदं ते केनोक्तं कथय कमलातङ्कवदने । ____ यदेतस्मिन् हेम्नः कटकमिति धत्से खलु धियम् । इदं तद् दुःसाधाक्रमणपरमास्त्रं स्मृतिभुवा
तव प्रीत्या चक्र करकमलमूले विनिहितम् ।। ४११ ॥" अत्र कामस्यास्त्रं चक्रं कविसमये न प्रसिद्धम् ॥ १० ॥
अथाश्लीलो यो ब्रीडाऽऽदीनि व्यनक्ति । यथा" उद्यतस्य परं हन्तुं स्तब्धस्य विवरैषिणः । ___ पतनं जायतेऽवश्यं कृच्छ्रेण पुनरुन्नतिः ।। ४१२ ॥"
अत्र पुंच्यञ्जनस्यापि प्रतीतिः ॥ ११ ॥ अथ प्रकाशितविरुद्धः प्रकाशितं व्यञ्जितं विरुद्धं येन । यथा--
" लग्नं रागावृताङ्गथा सुदृढमिह ययैवासियष्ट्याऽरिकण्ठे
मातङ्गानामपीहोपरि परपुरुषर्या च दृष्टो पतन्ती । तत्सक्तोऽयं न किश्चिद् गणयति विदितं तेऽस्तु तेनास्मि दत्ता
भृत्येभ्यः श्रीनियोगाद् गदितुमिव गतेत्यम्बुधि तस्य कीर्तिः॥" अत्र विदितं तेऽस्त्वित्यनेन श्रीस्तस्मादपसर्तुकामेति विरुद्धं प्रकाश्यते । अनेनैव वाक्यस्य गर्मितत्वमप्यस्ति । इति श्रीनियोगादिति वाच्ये गतेत्यस्मिनितिशब्दस्यास्थानपदत्वं च ॥ १२ ॥
१व. तु । २ व. •ष्ट्वा ।.३ व. अवि० । ४ व. श्रीयो० ।
For Private And Personal Use Only