________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
१५८
मलकारमहोदधौ अत्र चतुर्थपदवाक्यार्थः पुनरुक्तः।
___ यथा वा." पायात् स शीतकिरणाभरणो भवो वः ॥ ४०२ ॥ अत्र विशेषणाद् विशेष्यप्रतीतौ भवशब्दः ।
यत्र तु विशेषणान्न विशेष्यमात्रस्य प्रतीतिरपि तु तद्विशेषस्य । तत्र न पौनरुक्यम् । यथा
" तव प्रसादात् कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा ।
कुर्या हरस्यापि पिनाकपाणेधैर्यच्युति के मम धन्विनोऽन्ये ॥४०३॥"
अत्र पिनाकपाणेरित्यस्य पिनाकसानिध्यख्यापकत्वात् न हरशब्दस्य पौनरुक्त्यम् ॥ ७॥
अथानवीकृतो यः परावृत्या नवतां न नीयते । यथा" प्राप्ताः श्रियः सकलकामदुधास्ततः किं ?
दत्तं पदं शिरसि विद्विषतां ततः किम् । सन्तर्पिता: प्रणयिनो विभवैस्ततः किं
____ कन्पं स्थितं तनुभृतां तनुभिस्ततः किम् ? ॥ ४०४ ॥" अत्र ततः किमिति न नवतां नीतम् ।। ८ ॥
नवीकृतं तु यथा
" यदि दहत्यनलोऽत्र किमद्भुतं यदि च गौरवमद्रिषु किं ततः ।
लवणमम्बु सदैव महोदधेः प्रकृतिरेव सतामविषादिता ॥ ४०५॥" अथ विद्याविरुद्धो विद्यया शास्त्रेण विरुद्धः । तत्र धर्मशास्त्रण यथा
१ व. अवि० । २ अ. तु तत्र । ३ व. पुनरौ० । ४ व. ते । ५ प. (न्यैः । ६ . अ, अथ न० । ७ अ. किमत्र तदद्भुतं । ८ अ. महांबुधेः ।
For Private And Personal Use Only