________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः । " जगति जयिनस्ते ते भावा नवेन्दुकलाऽऽदयः
प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये । मम तु यदियं याता लोके विलोचनचन्द्रिका ___ नयनविषयं जन्मन्येकः स एव महोत्सवः ॥ ३९८ ॥"
अत्रेन्दुकलाऽऽदयो यं प्रत्यवस्तुभृताः स एवोत्कर्षार्थ चन्द्रिकात्वमारोपयतीति व्याहतत्वम् ॥ ४॥
अथ सन्दिग्धो यः संशयस्य हेतुर्यथा" मनोरथप्रियालोकरसलोलेक्षणे सखि ! ।
आराद् धृतिरियं माता न क्षमा द्रष्टुमीदृशम् ॥ ३९९ ॥ " अत्राराच्छब्दस्य दूरान्तिकवाचित्वात् न क्षमा द्रष्टुमीदृशमिति किं न द्रक्ष्यति, किं वा तवेवृशं चेष्टितं न सहिष्यत इति सन्दिग्धत्वम् ॥ ५ ॥
अथापदमुक्तोऽपदेऽस्थाने मुक्तो यथा" आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं
भक्तिर्भूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी। उत्पत्तिद्रुहिणान्वये च तदहो ! नेदृग् वरो लभ्यते
स्याचेदेष न रावणः क नु पुनः सर्वत्र सर्वे गुणाः । ॥ ४०॥" अत्र — स्याचेदेष न रावणः' इत्यत्रैव समाप्तियुक्ता, अर्थान्तरानुसन्धान तु धर्मवीरस्य जनस्य प्रत्युत म्लानिमुन्मीलयति ।। ६ ।।
अथ पुनरुक्तो यत्स एवार्थः पुनरुच्यते । यथा" अस्त्रज्वालावलीढप्रतिबलजलधेरन्तरौर्वायमाणे ..
सेनानाथे स्थितेऽस्मिन् मम पितरि गुरौ सर्वधन्वश्विराणाम् । कर्णालं सम्भ्रमेण व्रज कृप ! समरं मुश्च हार्दिक्य ! शङ्का
ताते चापद्वितीये वहति रणधुरां को भयस्यावकाशः १ ॥४०१॥" १ व. व्याहृतं । २ व. ०थक्रियार० । ३ १, ०क्ष्यसि । ४ अ. व. ०नकस्य ।
For Private And Personal Use Only