SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५६ अलङ्कारमहोदधौ अत्र तमालश्यामलत्वादयोऽर्थी अनुपादानेऽपि प्रकृतमर्थ न बाधन्त इत्यपुष्टैः ॥ १॥ अथ कष्टः कष्टावगम्यो यथा-- " सदा मध्ये यासामियममृतनिःस्यन्दसरसं सरस्वत्युद्दामा वहति बहुमार्गा परिमलम् । प्रसादं ता एता धनपरिचयाः केन महतां महाकाव्यव्योम्नि स्फुरितमधुरा यान्तु रुचयः ।। ३९६ ॥" अत्र यासां कविरुचीनां कविप्रतिभाविशेषाणां मध्ये बहुमार्गा सुकुमारविचित्र-मध्यमात्मक-त्रिमार्गा सरस्वती भारत्यमृतनि:स्यन्दसरसं पीयूषद्रवसुभगं परिमलं चमत्कारं वहति ता धनपरिचया निविडाभ्यासशालिन्यो महाकाव्ये कथमितरकाव्यवत् प्रसन्ना भवन्तु । यासामादित्यप्रभाणां च मध्ये बहुमार्गा सरस्वती गङ्गा जलनि:स्यन्दसुन्दरं चमत्कारं व्योम्नि वहति ता मेघपरिचिताः कथं प्रसन्ना भवन्तु इति दुरधिगमार्थद्वयाचित्वात् कष्टत्वम् ॥२॥ अथ दुष्क्रमो दुष्टो विपरीतक्रमो यत्रं यथा* " काराविऊण खउरं गामउडो मजिओ अ जिमिओ अ। नक्खत्तं तिहि-वारे जोइसिअं पुच्छिउं चलिओ ।। ३९७॥" अत्र नक्षत्रादिप्रश्नानन्तरं क्षुरकर्मेति क्रमः, स चात्र विपरीतः ॥ ३ ॥ अथ व्याहतः पूर्वापरयोविरोधो यत्र यथा * कारयित्वा क्षौरं ग्रामकूट: स्नातश्च निमितश्च । नक्षत्रं तिथि-वारौ ज्योतिषिकं प्रष्टुं चलितः ॥ १ व. लाद०, प. ०र्थानु० । २ अ. •ने प्र. | ३ अ. • पुष्टाः । ४ अ. निःपंद० । ५ अ. व. ०यां कु० । ६ अ. ०त्र का० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy