________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः ।
१५५ अथार्थदोषानाहअथ धीमद्भिरर्थोऽपि दुष्टोऽयमभिधीयते ॥ १०॥ अथ पद-वाक्योभयदोषकथनानन्तरमयं वक्ष्यमाणोऽर्थोऽपि धीमद्भिः सहृदयैर्दुष्टो दोषवानभिधीयते ॥१०॥
अथ कीदृशोऽर्थो दुष्ट इत्याहपुष्टतारहितः कष्टो दुष्कम-व्याहतावपि । सन्दिग्धोऽपदमुक्तश्च पुनरुक्तोऽनवीकृतः ॥ ११ ॥ विद्यया च प्रसिद्ध्या च विरुद्धोऽश्लील एव च । प्रकाशितविरुद्धश्च दुष्टविध्यनुवादभाक् ॥ १२॥ सैसामान्यविशेषाच्च नियमानियमद्वयात् । परिवृत्तोऽथ साकाङ्क्ष-ग्राम्य-निर्हेतवोऽपि च ॥ १३ ॥ भिन्नः सहचरेभ्योऽथ विमुक्तपुनरादृतः ।
अथैषां सामान्यलक्षणमाहएतेषामपि विज्ञेयं निर्जनामैव लक्षणम् ॥ १४ ॥
एतेषामपि पुष्टतारहितादीनामपि निजनामैव स्वकीयसंझैव लक्षणं विजेयम् । तत्र पुष्टतारहितः प्रकृतोपयोगित्वमर्थस्य पुष्टता तया रहिनो यथा
" तमालश्यामलं क्षारमत्यच्छमति फेनिलम् । फालेन लङ्घयामास हनूमानेष सागरम् ।। ३९५ ।।"
. १ . ०र्थो दु० । २ अ. सामा०, प. समासान्य० । ३ प. ०थ मुक्त-पु० । ४ व. एषा० । ५ व. जानामे कल० । ६ प. त्रयोदशभिः कुलकं । ७ व. ०मेव । ८ प. ०मपि फे० ।
For Private And Personal Use Only