SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५४ अलङ्कारमहोदधौ " अलमतिचपलत्वात् स्वप्नमायोपमत्वात् परिणतिविरसत्वात् सङ्गमेन प्रियायाः । इति यदि शतकृत्वस्तत्त्वमालोचयाम स्तदपि न हरिणाक्षी विस्मरत्यन्तरात्मा ।। ३९१ ॥" अत्र त्वादिति दुःश्रवम् । अवाचकं यथा" चापाचार्यस्त्रिपुरविजयी कार्तिकेयो विजेयः शस्त्रव्यस्तः सदनमुदधिभूरियं हन्तकारः । अस्त्येवैतत् किमु कृतवता रेणुकाकण्ठबाधां बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः ॥ ३९२ ॥" अत्र विजेय इत्यत्र कृत्यप्रत्ययः क्तप्रत्ययार्थेऽवाचकः । नेयार्थ यथा"किमुच्यतेऽस्य भृपालमौलिमालाशिरोमणेः । सुदुर्लभं वचोबाणैस्तेजो यस्य विभाव्यते ॥ ३९३ ॥" अत्र वचःशब्देन गीःशब्दो लक्ष्यते । अत्र न केवलं पूर्वपदं यावदुत्तरपदमपि पर्यायपरिवर्तनं न क्षमते । जलध्यादौ तूत्तरपदमेव, वडवानलादौ च पूर्वपदमेव । निहतार्थ यथा" यश्चाप्सरोविभ्रममण्डनानां सम्पादयित्रीं शिखरैर्बिभर्ति । बलाहकच्छेदविभक्तरागामकालसन्ध्यामिव धातुमत्ताम् ।। ३९४ ॥" अत्र मत्ताशब्दः क्षीवार्थेन तिरोधीयते । एवमन्यदपि पदैकदेशे बोद्धव्यमिति। १ प. नाङ्गनायाः । २ व. सप्तकृत्वमा० । ३ अ. पशु० । ४ व. कृत्प्र० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy