SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः । १५३ ___ अत्र कर्कशकण्टके दण्डेऽङ्गानि घट्टयन तुण्डेन चल्गुरवं कुर्वन् हंसः पशिन्या मुखं चुम्बतीति वक्तव्ये यथोक्तपदविन्यासेन क्लिष्टत्वम् । समासगतत्वं चैषां प्रायः पदापेक्षयैव, न वाक्यापेक्षया । पदैकदेशोऽपि पदमेव, तत्रानर्थकं यथा" आदावञ्जनपुञ्जलिप्तवपुषां श्वासानिलोल्लासित प्रोत्सर्पद्विरहानलेन च ततः सन्तापितानां दृशाम् । सम्प्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो भल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ॥ ३८८ ॥" अत्र दृशामिति बहुवचनमनर्थकम् , कुरङ्गेक्षणाया एकस्या एवोपादानात् । न च" अलसचलितैः प्रेमानैर्मुहुर्मुकुलीकृतैः क्षणमभिमुखैलजालोलैनिमेषपराङ्मुखैः । हृदयनिहितं भावाकृतं वमद्भिरिवेक्षणैः कथय सुकृती कोऽयं मुग्धे ! त्वयाऽद्य विलोक्यते ? ॥ ३८९ ॥" इत्यादिवद् व्यापारभेदाद् बहुत्वं व्यापाराणामनुपात्तत्वात् न च व्यापारेत्र दृक्शब्दो वर्ततेऽत्रैव कुरुते इत्यात्मनेपदमनर्थकम् , तस्या विरहिणीत्वेन कर्मभिप्रायक्रियाफलाभावात् । सन्दिग्धं यों" कॅस्मिन् कर्मणि सामर्थ्यमस्य नोत्तपतेतराम् ।। अयं साधुचरस्तस्मादञ्जलिर्बध्यतामिह ॥ ३९० ॥" अत्र किं पूर्व साधुरुत साधुषु चरतीति सन्देहः । दुःश्रवं यथा १ व. कुण्डे० । २ अ. सोनि० । ३ व. ०वलि० । ४ अ. ०था अलम० । ५ प. कस्य । ६ व. वं साधुषु । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy